________________ नैषधीयचरितं महाकाव्यम् अन्वयः-अद्येह स्थितौ तवाऽपि साफल्यं स्यादित्याह-दृशोरिति / (हे सौम्य ! ) विधिना ते दृशोः द्वयी वञ्चिता अस्ति, यत् तव मुखेन्दुलक्ष्मी न वीक्षते / तत् असो अपि श्वः इमां नलाऽऽनने विलोक्य जन्मसाफल्यम् उपतु // 67 // ____ व्याख्या-विधिना = स्रष्ट्रा, ते = तव, दृशोः = नेत्रयोः, द्वयी = द्वितयी, दुग्द्वयीति भावः / वञ्चिता = प्रतारिता, विफलीकृतेति भावः / अस्ति = वर्तते. यत् = यस्माद्धेतोः, तव = भवतः, मुखेन्दुलक्ष्मी = वदनचन्द्रशोभां, न वीक्षते = न पश्यति, त्वद्रद्वयीति शेषः। स्वमुखस्य स्वचक्षुण द्रष्टुमशक्यत्वादिति भावः / तत् = तस्मात्कारणात्, असो अपित्वद्रद्वयी अपि, श्वः-परेऽहनि, इमां = त्वन्मुखलक्ष्मी, नलाऽऽनने नैषधमुखे, विलोक्य = दृष्टवा, जन्मसाफल्यं = जननसफलताम्, उपतु = प्राप्नोतु // 67 // __ अनुवादः-(हे सौम्य ! ) ब्रह्माजीने आपके दोनों नेत्रोंको निष्फल कर दिया है जो कि ये आपके मुखचन्द्रकी शोभाको नहीं देखते हैं / इस कारणसे वे भी कल आपके मुखकी शोभाको नलके मुखमें देखकर जन्मकी सफलताको प्राप्त करें।। 67 // टिप्पणी-मुखेन्दुलक्ष्मी =मुखम् इन्दुरिव ( उपमित० ) / मुखेन्दो: लक्ष्मीः पाम् (ष० त०)। वीक्षते = वि + ईक्ष + लट् + त / नलाऽऽनने = नलस्य आननं, तस्मिन् (ष० त०)। विलोक्यवि + लोक् + क्त्वा ( ल्यप् ) / जन्मसाफल्यं = जन्मनः साफल्यं, तत् (प० त०)। इस पद्यमें दूतमें देवबुद्धिसे इतमुखलक्ष्मी और नलमुखलक्ष्मीमें भेद होनेपर भी अभेदकी उक्तिसे अतिशयोक्ति अलङ्कार है // 67 // ममैव पाणीकरणेऽग्निसाक्षिक प्रसङ्गसम्पादितमङ्ग! संगतम् / न हा ! सहाऽधीतिधृतः स्पृहा कथं यवाऽऽर्यपुत्रीयमजयमजितुम् ? // 68 // अन्वयः- अङ्ग ! मम पाणौकरणे एव अग्निसाक्षिक प्रसङ्गसंपादितम्, आर्यपुत्रीयम् अजयं संगतम् अजितुं सहाऽधीतिधृतः तव स्पृहा कथं न हा / / 68 / / ___ व्याख्या--हे अङ्ग = हे महोदय , मम = कुमार्याः, पाणीकरण एव = पाणिग्रहण एव, अग्निसाक्षिकम् अग्निसाक्षिकं यथा तथा, विवाहाऽग्निसन्निधौ एवेति भावः / संगतं = मैत्रं, नलेन सहेति शेषः / प्रसङ्गसम्पादितं = स्वयंवराऽ वसरसम्पादितं, स्यात्, आर्यपुत्रीयं = नलीयम्, अजयं = स्थिर, संगतं = सख्यम्, अजितुं = सम्पादयितुं, सहाऽधीतिवतः = तुल्यरूपताधारिणः, तव = भवतः,