________________ नवमः सर्गः 315 गन्तुमना: = गन्तुं मनो यस्य सः ( बहु० ), "तुं काममनसोरपि" इससे मकारका लोप / तदन्तराय: = तस्य अन्तरायः (10 त०), "विघ्नोऽन्तरायः प्रत्यूहः" इत्यमरः / एक दिनका विलम्ब अत्यन्त दुःसह प्रतीत हो रहा है, यह भाव है / इससे औत्सुक्य प्रतीत होता है / / 65 // तद्य विश्रम्य दयालुरेषि मे, दिनं निनीषामि भवद्विलोकिनी। नखः किलाऽऽख्यायि विलिख्य पक्षिणा तवेव रूपेण समः स मत्प्रियः // 66 // अन्वयः-- ( हे महोदय ! ) तत् अद्य विश्रम्य मे दयालुः ? एधि, भवद्विलोकिनी ( सती ) दिनं निनीषामि; स मत्प्रिय: पक्षिणा नखै: विलिख्य तव एव रूपेण समः आख्यायि किल / / 66 / / व्याख्या--तत = तस्मात औत्सुक्यात, अद्य = अस्मिन् दिने, विश्रम्य = विश्रमं कृत्वा, मे = मम, दयालुः = कृपालुः, एधि = भव, तन्निवासस्य फलमाह-दिनमिति / भवद्विलोकिनी = त्वद्विलोकनशीला सती, दिनं = दिवस, निनीषामि = नेतुम् इच्छामि / मदर्शनात्कथं ते दिननयनमित्याशङ्कयाहनखैरिति / सः = पूर्वोक्तः, मत्प्रियः = मद्वल्लभः, नल इति भावः / पक्षिणा = विहगेन, हंसेन इति भावः / नखः = नखः, विलिख्य = विलेखनं कृत्वा, तव एव = भवत एव, रूपेण = आकारण, समः = सदृशः, आख्यायि = आख्यातः, किल = खलु / अतस्त्वदर्शनादिवसं यापयिष्यामीति भावः / / 66 // अनुवादः-(हे महोदय ! ) उस कारणसे आज विश्राम करके मुझपर दयालु हों / मैं आपको देखती हुई दिन बिताना चाहती हूँ। मेरे प्यारे उन नलको पक्षी हंसने नाखूनोंसे लिखकर आपके ही आकारके समान वतलाया था / / 66 / / टिप्पणी-विश्रम्य = वि+श्रम+क्त्वा ( ल्यप् ) / दयालुः = दय+ आलुच्+सु / एधि = अस् + लोट् + सिप् / भवद्विलोकिनी-भवन्तं विलोकते तच्छीला, भवत् +वि+लोक+णिनिः (उपपद०) + ङीप् + सु / निनीषामि नी+ सन् + लट् + मिप् / मत्प्रियः = मम प्रियः (10 त०)। विलिख्य = वि + लिख+ क्त्वा. ( ल्यप् ) / आख्यायि = आइ+ख्या + लुङ् ( कर्ममें )+ त // 66 // दृशोर्द्वयो ते विधिनाऽस्ति वञ्चिता, मुखेन्दुलक्ष्मों तव यन्न वोक्षते / असावपि श्वस्तदिमां नलाऽऽनने विलोक्य साफल्यमुपैतु जन्मनः / / 67 //