________________ नवमः सर्ग: 313 दंशादिजन्तुवत् मम, श्रुति = कर्णम्, आविश्य =प्रविश्य, उत्कटाः = दुःसहाः, रुजः = पीडाः, सृजति = जनयति // 63 // - अनुवादः-(हे महोदय ! ) आपके मुखसे निकली हुई मेरी मिथ्या दुष्कीर्तिरूप मसी ( स्याही ) से प्रचुर होनेसे मानों लिपिके अक्षरभावको प्राप्त यह आपका दुर्वाक्य दंश आदि कीड़ेके समान मेरे कानमें घुसकर असह्य पीडा कर रहा है / / 63 // टिप्पणी-त्वदास्येत्यादिः = तव आस्यम् ( ष० त० ) / त्वदास्यात् निर्यत् (प० त० ) दुष्टं यशः ( गति० ) / अलीकं च तत् दुर्यशः ( क० धा० ) / मम अलीकदुर्यशः ( ष० त० ) / त्वदास्यनिर्यच्च तत् मदलीकदुर्यशः (क० धा०), तदेव मसी ( रूपक० ), सा प्रचुरा यस्मिस्तत् त्वदास्यनिर्यन्मदलीकदुर्यशोमसीमयम्, त्वदास्य-मसी + मयट+सु। तस्य भावः तत्त्वं, तस्मात (त्वप्रत्यय ) / लिपिरूपभाक = लिपे रूपं ( ष० त० ), तद् भजतीति, लिपिरूप+ भज् +ण्विः (उपपद०)+ सु / भवदुरक्षरं दुष्टम् अक्षरं ( गति० ), जातिमें एकवचन / भवतो दूरक्षरम् (10 त०) आविश्य = आङ्+विश् + क्त्वा ( ल्यप् ) / इस पद्यमें रूपक, उत्प्रेक्षा और उपमा इनका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 63 // तमालिरूचेऽथ विदर्भजेरिता "प्रगाढमौनव्रतयकया सखी। अपां समाराधयतीयमन्यया भवन्तमाह स्म रसज्ञया मया // 64 // अन्वय:--अथ विदर्भजेरिता आलिः तम् ऊचे-(हे सौम्य ! ) इयं सखी प्रगाढमौनव्रतया एकया रसज्ञया अपां समाराधयति, ( अतः ) मया अन्यया रसज्ञया भवन्तम् आह स्म // 64 // __व्याख्या--अथ = भैमीवाक्याऽनन्तरं, विदर्भजेरिता = वैदर्भीप्रेरिता, आलि: = सखी, तं = नलम, ऊचे = जगाद ( हे सौम्य ! ), इयम् = सन्निकृष्टस्था, सखी = वयस्या, दमयन्ती, प्रगाढमौनव्रतया = दृढमुनिव्रतयुक्तया, एकया, रसज्ञया = जिह्वया, अपां-लज्जां, समाराधयति = भजते, अतः मयामद्रपया, अन्यया = अपरया, रसज्ञया = जिह्वया, अभिलाषाऽभिज्ञया च, भवन्तं = त्वाम्, आह स्म-कथयति / अनन्तरवाच्यं, मया-मद्रूपया, रसज्ञया = जिह्वया, नलाऽनुरागाऽभिज्ञया च, भवन्तं = त्वाम्, आह स्म = कथितवती, लज्जया स्वयं वक्तुमशक्ता सती मन्मुखेन वक्तीति भावः // 64 //