________________ 312 नैषधीयचरितं महाकाव्यम् विभिन्वता दुष्कृतिनी मम श्रुति दिगिन्द्रदुर्वाचिकसूचिसञ्चयः / प्रयातजीवामिव मां प्रति स्फुटं कृतं स्वयाऽप्यन्तकबूततोचितम् // 12 // अन्वयः- ( हे महोदय ! ) दुष्कृतिनीं मम श्रुति दिगिन्द्रदुर्वाचिकचिसञ्चयः विभिन्दता त्वया अपि प्रयातजीवाम् इव मां प्रति स्फुटम् अन्तकदूततोचितं कृतम् // 62 // व्याख्या - दुष्कृतिनी = दुष्कर्मकारिणी, मम, श्रुति = कणं, दिगिन्द्रदुर्वाचिकसूचिसञ्चयः = इन्द्रादिदिक्पालदुष्टसन्देशरूपकण्टकाऽग्रसमूहैः, विभिन्दता = विदारयता, त्वया अपि = नलाकृतिना सुन्दरेण भवता अपि, प्रयातजीवाम् इव = गतजीवनां, प्रेताम् इव, मां प्रति, स्फुटं = व्यक्तं यथा तथा, अन्तकदूततोचितं = यमदौत्ययोग्यं, कर्मेति शेषः, कृतं = विहितम् / पतिव्रतानां कृते परपुरुषवार्ताऽपि यमयातनाया नाऽतिरिच्यत इति भावः // 62 // ___ अनुवादः--(हे महोदय ! ) दुष्कर्म करनेवाले मेरे कानको इन्द्र आदि दिक्पालोंके दुष्टसन्देशरूप सूइयोंसे भेदन करनेवाले आपने भी मृतसदृश मेरे प्रति स्पष्ट रूपसे यमराजके दूतभावका उचित कर्म किया है / 62 / / टिप्पणी-दिगिन्द्रदुर्वाचिकसूचिसञ्चयः = दिशाम् इन्द्राः (ष० त० ) / दुष्टानि वाचिकानि (गति०)। दिगिन्द्राणां दुर्वाचिकानि (10 त० ) तानि एक सूचयः ( रूपक०), तासां सञ्चयाः, तैः (10 त०)। विभिन्दता=विभिन. त्तीति विभिन्दन्, तेन, वि+भिद्+लट् ( शतृ )+टा। प्रयातजीवां = प्रयातः जीवः ( जीवनम् ) यस्याः सा, ताम् (बहु०)। अन्तकदूततोचितत् = अन्त. कस्य दूतता (प० त०), तस्या उचितम् (10 त० ) / पतिव्रता स्त्रियों के लिए परपुरुषोंकी वार्ता भी यमयातनासे अधिक नहीं होती है ? ( होती ही है)। इस पद्यमें रूपक और उत्प्रेक्षा अलङ्कारकी संसृष्टि है / / 62 // ... स्वदास्यनिर्यन्मदलोकदुर्यशोमसोमयत्वाल्लिपिरूपभागिव / / श्रुति ममाऽविश्य भवदुरक्षरं सृजत्यदः कोटवदुत्कटा रुजः // 63 / / अन्वयः– (हे महोदय ! ) त्वदास्यनिर्यन्मदलीकदुर्यशोमसीमयत्वात् लिपिरूपभाक् इव अदः भवद्दुरक्षरं कीटवत् मम श्रुतिम् आविश्य उत्कट। रुनः सृजति // 63 // - व्याख्या --त्वदास्यनिर्यन्मदलीकदुर्यशोमसीमयत्वात् = भवदास्यनिर्गच्छन्ममिथ्याभूतदुष्कीर्तिमषीप्रचुरत्वात्, लिपिरूपभाक् इव = लिव्यक्षरतां प्राप्तम् इव, स्थितमिति शेषः / अदः = इदं, भवदुरक्षरं = त्वदुर्वाक्यं, कीटवत् =