________________ नवमः सर्गः 309 व्याख्या-( अथ वा ) शिरीषमृद्वी = शिरीषकोमला, त्वमिति शेषः / पयःप्रकृत्या = जलस्वभावेन, मृदुवर्गवासवं = कोमलसमूहेन्द्र, वरुणं = पश्चिमदिक्पालम्, ईहसे किम् इच्छसि किम् ?, दृष्टान्तेनामुमर्थमुपपादयति-विहायेति / सा = मृदुस्वभावा, निशा अपि = रात्रिः अपि, अनेन = मृदुस्वभावत्वेन एव, हेतुना = कारणेन, सर्वान् = सकलान्, तीक्ष्णान् सूर्यादीनिति भावः / विहाय = त्यक्त्वा, शीतांऽशुं = चन्द्रमसं, न वृणुते स्म किं = न स्वीकुरुते स्म किं, वृणुते एवेति भावः // 58 // अनुवादः-(हे दमयन्ति ! ) अथ वा शिरीषके फूलके समान कोमलाङ्गी तुम जलके स्वभावसे कोमल पदार्थोंके इन्द्र अर्यात् श्रेष्ठ वरुणदेवको चाहती हो क्या ? रात्रि भी कोमल स्वभाव होनेसे सब ( सूर्य आदि ) को छोड़कर चन्द्रको ही वरण नहीं करती है क्या ? // 58 // टिप्पणी-शिरीषमृद्वी = शिरीषम् इव मृद्वी ( उपमान० कर्म० ) पयः - प्रकृत्या = पयस प्रकृतिः, तया ( 10 त० ) / वरुणका जलमय शरीर होनेसे ऐसा कहा गया है। मृदुवर्गवासवं = मृदूनां वर्गः ( 0 त०), तस्मिन् वासवः, तम् ( स० त०)। ईहसे = ईह+ लट् +थास् / अनेन हेतुना = "सर्वनाम्न. स्तृतीया च” इस सूत्रसे तृतीया / शीतांऽशुं = शीता अंशवो यस्य सः, तम् (बहु० ) इस पद्यमें दृष्टान्त अलङ्कार है / / 58 // असेवि यस्त्यक्तदिवा दिवानिशं श्रियः प्रियेणाऽनणुरामणीयकः / सहाऽमुना तत्र पयः पयोनिषो कृशोपरि ! क्रोड यथामनोरवम् // 59 / / अन्वयः-हे कृशोदरि ! अनणरामणीयक: यः त्यक्तदिवा श्रियः प्रियेण दिवानिशम् असेवि / तत्र पयःपयोनिधौ अमुना सह यथामनोरथं क्रीड / / 59 // व्याख्या--हे कृशोदरि = हे दमयन्ति !, अनणरामणीयकः= अतिरमणीयः, यः = पयःपयोनिधिः ( क्षीरसागरः ), त्यक्तदिवा = त्यक्तस्वर्गेण, श्रियः = लक्ष्म्याः , प्रियेण - वल्लभेन, नारायणेनेति भावः / दिवानिशं = रात्रिन्दिवम्, असेवि = सेवितः / तत्र = तस्मिन्, पयःपयोनिधी = क्षीरसागरे, अमुना सह = वरुणेन समं, यथामनोरथम् = अभिलाषाऽनुसारं, क्रीड = क्रीडां कुरु, लक्ष्मीनारायणवदिति भाषः // 59 // अनुवादः - हे कृशोदरि ! अत्यन्त सुन्दर जिस क्षीरसमुद्रका स्वर्गको भी छोड़कर नागयणने दिन-रात आश्रय लिया, उस समुद्र में वरुणदेवके साथ तुम इच्छाके अनुसार क्रीडा करो॥ 59 //