________________ 308 नैषधीयचरितं महाकाव्यम् अन्वयः-(हे दमयन्ति ! ) अगस्त्यभासा निर्मलत्विषि दिशि तेन अमृत्युशङ्किता ( सती ) अजातविच्छेदलवः स्मरोत्सवैः केलिभिः धुताऽवधि कालं निमेषवत् नयस्व / / 57 // ___व्याख्या-अगस्त्यभासा = अगस्त्यदीप्त्या, निर्मलत्विषि = उज्ज्वलकान्ती दिशि = काष्ठायां, दक्षिणस्यां दिशीति भावः / तेन = धर्मराजेन सह, अमृत्युशङ्किता = मरणशङ्कारहिता सती, अजातविच्छेदलवैः = अनुत्पन्न वियोगलेशः, स्मरोत्सवः कामसंभोगः एव, "स्मरोद्भवः" इति पाठान्तरे कामोत्पन्न रित्यर्थः / केलिभिः = विनोदः, धुताऽवधिं = सीमारहितं, कालं = समयम्, अनन्तकालम् इति भावः / निमेषवत् = निमेषतुल्यं, नयस्वं = यापय, वरान्तरस्वीकार एतादशं सौभाग्यं न प्राप्स्यत इति भावः // 57 // ____ अनुवादः-(हे दमयन्ति ! ) अगस्त्य ऋषिके प्रकाशसे निर्मल कान्तिवाली दिशा ( दक्षिण ) में यमराजके साथ मरणकी शङ्कासे रहित होती हुई वियोगके लेशसे भी रहित कामदेवके संभोगरूप विनोदोंसे सीमाशून्य कालको निमेषके समान व्यतीत करो // 57 // टिप्पणी-अगस्त्यमासा-अगस्त्यस्य भाः, तया (ष० त०)। निर्मलत्विषि% निर्गतं मलं यस्याः सा निर्मला ( बहु०), सा त्विट यस्याः सा तस्याम् ( बहु० ) / अमृतशङ्किता = शङ्कनं शङ्कितम्, शकि+क्त ( भावमें )+सु। मृत्योः शङ्कितं (प० त० ) / अविद्यमानं मृत्युशङ्कितं यस्याः सा (नञ्बहु०)। अजातविच्छेदलवैः = न जात: ( न०)। विच्छेदस्य लवः ( 10 त० ) / अजातो विच्छेदलवो येषु, तैः (बहु०)। स्मरोत्सवः = स्मरस्य उत्सवाः, तैः (ष० त०)। धुताऽवधि = धुतः अवधिः ( अन्तः ) यस्य, तम् ( बहु० ) / निमेषवत् = निमेषेण तुल्यम, निमेष+वतिः / नयस्व = नी+लोट् + थास् / धर्मराजको छोड़कर अन्य वरके स्वीकारमें ऐसा सौभाग्य दुर्लभ है, यह भाव है // 57 // शिरीषमृद्वी वरुणं किमोहसे पयः प्रकृत्या मृदुवर्गवासवम् ? / विहाय सर्वान् वृणुते स्म किं न सा निशाऽपि शीतांशुमनेन हेतुना // 58 / / अन्वयः-( हे दमयन्ति ! ) ( अथ वा) शिरीषमृद्वी ( त्वम् ) पय:प्रकृत्या मृदुवर्गवासवं वरुणं ईहसे किम् ? ( तथा हि ) सा निशा अपि अनेन हेतुना सर्वान् विहाय शीतांऽशुं न वृणते स्म किम् ? // 8 //