________________ नवमः सर्गः वृत् + णिच् + यत् + सु, "अचो यत्" इससे यत् परीक्षणक्षणे - परीक्षणस्य क्षणः, तस्मिन् ( ष. त० ) / हिमोपमा-हिमेन उपमा ( साम्यम् ) यस्याः सा ( व्यधि० बहु 0 ), शतशः = शत+ शस् / इस पद्यमें पूर्ववाक्य एकपत्नीपदाऽर्थहेतुक है इसलिए पदाऽर्थहेतुक काव्यलिङ्ग और उसका भी उत्तरवाक्यार्थ हेतुक होनेसे वाक्यार्थहेतुक काव्यलिङ्ग अलङ्कार है, इस प्रकार दोनोंका सङ्कर है // 55 // स धर्मराजः खलु धर्मशोलया त्वयाऽस्ति चित्ताऽतिथितामवापितः ? / ममाऽपि साघु प्रतिभात्ययं क्रमश्चकास्ति योग्येन हि योग्यसंगमः // 56 // अन्वयः - ( हे दमयन्ति ! ) स धर्मराजः धर्मशीलया त्वया चित्ताऽतिथिताम अवापितः अस्ति खलु ? मम अपि अयं क्रमः साधु प्रतिभाति, हि योग्येन योग्यसंगमः चकास्ति // 56 // व्याख्याः-स = प्रासिद्धः, धर्मराजः = यमः धर्मशीलया = धर्मचारिण्या, त्वया = भवत्या, चित्ताऽतिथितां = मनोमोचरत्वम्, अवापितः = प्रापितः, अस्ति खलु = विद्यते किम् ?, कामितः किमिति भावः / क्रममिमं समर्थयते-मम अपि, अयम् = एषः, क्रमः = परिपाटी, साधु = समीचीनं यथा तथा, प्रतिभाति = परिस्फुरति, हि = यतः, योग्येन = अहँण सह, योग्यसंगमः = अर्ह. सम्बन्धः, चकास्ति शोभते, उभयोर्धार्मिकत्वादिति भावः // 56 // अनुवादः-( हे दमयन्ति ! ) प्रसिद्ध धर्मराज ( यम ) को धर्मचारिणी तुमने चित्तका अथिति बना लिया है क्या ? मुझे भी यह क्रम (प्रवृत्ति ) अच्छा लगता है, क्योंकि योग्यके साथ योग्यका सम्बन्ध शोभित होता है // 56 // टिप्पणी-धर्मराजः = धर्मस्य राजा (ष० त०), धर्मशीलया = धर्मशीलयतीति धर्मशीला, तया, . धर्म-उपपदपूर्वक-"शील उपधारणे" धातुसे "शी/लकामिभक्ष्याचरिभ्योणः'' इस सूत्रसे ण प्रत्यय (उपपद०)। चित्ताऽतिथितां = चित्तस्य अतिथिता, ताम् ( 10 त० ) / अवापितः अव+ आप् + णिच् + क्त+ सु / खलु = "निषंधवाक्याऽलङ्कारजिज्ञासाऽनुनये खलु / " इत्यमरः / “खलु" शब्द यहाँपर जिज्ञासा अर्थ में है। योग्यसंगमः = योग्यस्थ संगमः ( प० त०.)। चकास्ति = चकास् + लट् + तिप् / इस पद्यमें अर्थान्तरन्यास अलङ्कार है // 56 // अजातविच्छेदलवैः स्मरोत्सवैरगस्त्यभासा दिशि निर्मलविषि / धुताऽवधि कालममृत्युशङ्किता निमेषवत्तेन नयस्व केलिभिः // 57 //