________________ 302 नैषधीयचरितं महाकाव्यम् निषेधवेषो विधिरेष तेऽथवा तवैव युक्ता खलु वाचि वक्रता // विम्भितं यस्य किल ध्वनेरिदं विदग्धनारोवदनं तदाकरसं॥५०॥ अन्वयः-(हे विदग्धे ! ) अथ वा तव एष निषेधवेषः विधिः एव, वाचि वक्रता तव एव युक्ता खलु / इदं यस्य ध्वनेः विजृम्भितं विदग्धनारीवदनं तदा करः किल // 50 // व्याख्या-अथ वा = यद्वा, तव = भवत्याः, एषः = अयं, इन्द्राऽऽदिनिषेध इति भावः / निषेधवेषः = प्रतिषेधाऽऽकारः, विधिः एव = अङ्गीकार एव / तथा हि-वाचि = वचने, वक्रता = वक्रोक्तिचातुरी, व्यङ्गयोक्तिचतुरतेति भावः / तव एव = भवत्या एव, युक्ता % उचिता, खलु = निश्चयेन / इदं 3 वक्रवाक्यं, वञ्चनाचातुर्य, यस्य, ध्वनेः = व्यञ्जकवृत्तेः, विजृम्भितं = विजृम्भणं, विदग्धनारीवदनं = सूक्तिचतुरस्त्रीमुखं, तदाकरः = ध्वन्युत्पत्तिस्थानं, किल = निश्चयेन // 50 // ___अनुवादः - ( हे विदग्धे ! ) अथ वा आपका यह निषेधका आकारवाला विधि ही है। वचनमें वक्र उक्तिकी नतुरता आपकी ही उचित है। यह वक्रवाक्य जिस ध्वनिका विलास है, सूक्तिमें चतुर स्त्रीका मुख ही उस ध्वनिका उत्पत्तिस्थान है।॥ 50 // टिप्पणी-निषेधवेषः = निषेधो वेपो यस्य सः ( वहु. ) / विजृम्भितं = विजृम्भणं, वि+जुभी+ क्तः, 'नपुंसके भावे क्तः" इस सूत्रसे भावमें क्त प्रत्यय / विदग्धनारीवदनं = विदग्धा चाऽसौ नारी ( क० धा० ), तस्या वदनम् (10 त० ) / तदाकरः = तस्य (ध्वनेः ), आकरः (10 त०)। इन्द्र आदि दिक्पालोंमें स्वीकृतिको ही दृढ करने के लिए यह आपका निषेधका अभिनय है अतः आपके निषेधसे विधि ही व्यङ्गच होती है, यह भाव है। इस पद्यमें अर्थान्तरन्यास अलङ्कार है // 50 // भ्रमामि ते भैमि ! सरस्वतीरसप्रवाहचकेषु निपत्य कत्यदः . त्रपामपाकृत्य मनाक कुरु स्फुटं, कृतार्थनीयः कतमः सुरोत्तमः ? // 51 // अन्वयः-हे. भैमि ! ते सरस्वतीरसप्रवाहचक्रेषु कत्यदः निपत्य भ्रमामि / कतमः सुरोत्तमः कृतार्थनीयः ? त्रपां मनाक् अपाकृत्य स्फुटं कुरु / / 51 // व्याख्या - हे भैमि = हे दमयन्ति !, ते तव, सरस्वतीरसप्रवाहचकेषु = सरस्वतीनदीजलपूरपुटभेदसदृशेषु वक्रोक्तिरूपेषु, वाणीशृङ्गारपूरसमूहेषु, कत्यदः - कियच्चक्रं यथा तथा, निपत्य - पतित्वा, भ्रमामि = गुह्यामि, वक्रो.