________________ नवमः सर्गः 301 टिप्पणी-प्रवेक्ष्यसि = प्र+विश् + लृट् + सिप् / पाशपाणिना = पाशः पाणी यस्य, तेन ( व्यधिकरणबह०)। "प्रहरणाऽर्थेभ्यः परे निष्ठासप्तम्यौ" इस वार्तिकसे पाश पदका पूर्वप्रयोग / जितं = जि+क्तः ( भावमें ) + सुः / पयःपतिः = पयसः पतिः (प० त० ) / त्वदाख्यान् = त्वं नाम येषां ते त्वदाख्या:, तान् (बहु० ) / वक्ष्यतेतराम् = वह + लट् +त+तरप् + आमुः / तुम्हारे जलमें प्रवेश करनेसे जलपति वरुण तुम्हें स्वीकार कर लेंगे यह भाव है। इस पद्यमें भी विषम अलङ्कार है // 48 // करिष्यसे यद्यत एव दूषणादुपायमन्यं विदुषो स्वमृत्यवे / प्रियाऽतिथिः स्वेन गता गृहान् कथं न धर्मराज चरितार्थयिष्यसि ? // 49 / / अन्वयः- (हे मुग्धे ! ) विदुषी ( त्वम् ) अत एव दूषणात् स्वमृत्यवे अन्यम् उपायं करिष्यसे यदि, ( तर्हि ) प्रियाऽतिथिः ( त्वम् ) स्वेन गृहान् गता धर्मराजं कथं न चरितार्थयिष्यसि ? // 49 / / व्याख्या-विदुषी = पण्डिता, त्वमिति शेषः / अत एव दूषणात् = अस्मात् एव दोषात्, उद्बन्धनादिभिः प्राणत्यागे इन्द्राऽनलवरुणेष्वन्यतमाऽधीना भविष्यामीति दोषमाशङ्कयेति भावः / स्वमृत्यवे = निजमरणाय, अन्यम् = अपरम्, उपायम् = मरणसाधनम्, अनशनादिकमिति भावः / करिष्यसे यदि = विधास्यसे चेत्, तर्हि, प्रियोऽतिथि: अभीष्टाऽऽगन्तुः, त्वन्, स्वेन = स्वत एव, गहान् = धर्मराजगृहं, गता = प्राप्ता सती, धर्मराजं %यमं, कथ = केन प्रकारेण, न चरितार्थयिष्यसि = कृताऽयं न करिष्यसि, स्वयं गत्वा याचकमनोरथपूरणस्य सत्ययुगधर्मत्वादिदं कर्तव्यमेवेति भावः / / 49 // अनुवादः - ( हे मुग्धे ! ) विदुषी ( जानकार ) तुम उद्वन्धन आदिसे प्राणत्याग करने में पूर्वोक्त दोपसे अपनी मृत्युके लिए दूसराही उपाय अनशन आदि करोगी तो प्रिय अतिथि तुम स्वतः धर्मराजके गहमें प्राप्त होकर उनको क्यों कृतार्थ नहीं करोगी? // 49 // ____टिप्पणी-दूषणात् = हेतुमें पञ्चमी। स्वमृत्यवे = स्वस्य मृत्युः, तस्मै ( 10 त० ) / करिष्यसे = कृ+लट् +थास / प्रियाऽतिथिः = प्रिया चाऽसौ अतिथिः (क० धा०)। गृहान् = "गृहाः पुंसि च भूम्न्येव, निकाय्यनिलयाऽऽलयाः / " इत्यमरः / धर्मराज = धर्मस्य राजा, तम् (10 त० ), ( समासान्त टच् प्रत्यय ) / चरिताऽर्थयिष्यसि = चरितः अर्थः येन सः चरिताऽर्थः (बहु०) / चरितार्थ करिष्यसि, चरिताऽर्थ+ णिच+लए+सिप् // 49 //