________________ 300 नैषधीयचरितं महाकाव्यम् दुर्लभं = दुष्प्राप्यम्, अवरणादिति शेषः / अङ्ग = शरीरम्, अङ्ग = हे दमयन्ति ! त्वया एव भवत्या एव, अर्प्यते = समर्प्यते, दीयत इति भावः / त्वयाऽनलप्रवेशे कृते अग्निदेवः स्फुटतममेव जीवग्राहं ग्रहीष्यतीति भावः // 47. // ____अनुवादः-(हे मुग्धे ! ) नलसे त्यक्त ( अपरिणीत ) होकर तुम अग्निमें प्रवेश करोगी तो उन देवता ( अग्नि ) में वड़ी कृपा होगी जो कि उनसे बहुत समयसे प्रार्थना करके भी दुष्प्राप्य अपने शरीरको हे दमयन्ति ! स्वयम् समर्पण करोगी // 47 // टिप्पणी-नलोज्झिता = नलेन उज्झिता - ( त० त० ) / निवेक्ष्यसेनि+ विश् + लृट् + थास्, “नेविंशः” इस मूत्रसे आत्मनेपद / आदृता = आङ्+ * दृइ + क्तः+-टाप्+सु / दुर्लभं = दुःखेन लव्धु शक्यम्, दुस् + लभ् + खल+ सु / नलकी प्राप्तिमें निराश होकर आत्महत्या करनेके लिए तुम आगमें कूद पड़ोगी तो अग्निदेव जीती हई तुमको व्यक्त रूपसे ग्रहण करेंगे, यह अभिप्राय है / इस पद्य में विषम अलङ्कार है / / 47 / / जितं जितं तत्खलु पाशपाणिना विना नलं वारि यदि प्रवेक्ष्यसि / तदा त्वदाख्यान् बहिरप्यसूनसो पयःपतिर्वक्षसि वक्ष्यतेतराम् // 48 // अन्वयः-(हे मुग्धे ? ) नलं विना वारि प्रवेक्ष्यसे यदि, तत् पाशपाणिना जितं जितं खलु / तदा असौ पयःपतिः अपि त्वदाख्यान असून् बहिः अपि वक्षसि वश्यतेतराम् // 48 // _____ व्याख्या-नलं विना = नैषधम् अप्राप्येति भावः / वारि = जलं, प्रवेक्ष्यसि यदि = प्रवेशकर्म करिष्यसि चेत. आत्मघातरूपेणेति शेषः / तत् = तहि, पाशपाणिना = पाशिना, वारिपतिना वरुणेनेति भावः / जितं जितम् = अभीक्ष्णं जितं, खलु = निश्चयेन / तदा = तस्मिन् काले, त्वद्वारिप्रवेशसमय इति भाव: / असौ = अयं, पयःपतिः अपि = अप्पतिः, वरुणः अपि / त्वदाख्यान् = त्वन्नामकान्, असून = प्राणान्, बहिः अपि = अन्तःकरणाद् बहिः स्थिते अपि, वक्षसि = उरःस्थले, वक्ष्यतेतराम = धारयिष्यतितराम / त्वया वारिप्रवेशे कृते वारिपतिवरुणस्त्वां जीवन्तीमेवोररीकरिष्यतीति भावः // 48 / / ____ अनुवादः -(हे मुग्धे / ) नलको न पानेसे तुम जलमें प्रवेश करोगी तो वरुणने जयलाभ किया जयलाभ किया / तब ( जलमें तुम्हारे प्रवेश करने के बाद) वे जलपति (वरुण) तुम्हारे नामके प्राणोंको अन्तःकरणके बाहर रहे हुए वक्ष:स्थल ( छाती ) में भी अच्छी तरह धारण कर लेंगे // 48 / /