________________ 292 नैषधीयचरितं महाकाव्यम् तस्य भावः, प्रतिबन्ध+तल+टाप् +सु। देवसन्देशके विषयमें मेरे निषेधरूप उत्तरमें आप अनुकूल हों, प्रतिकूल न हों, यह भाव है। इस पद्यमें रूपक अलङ्कार है // 37 // निरस्य दूतः स्म तथा विजितः प्रियोक्तिरप्याह कदुष्णमक्षरम् / कुतूहलेनेव महः कुहरवं विडम्ब्य डिम्भेन पिकः प्रकोपितः // 38 // अन्वयः-दूतः तथा निरस्य विसर्जितः ( सन् ) कुतूहलेन डिम्भेन मुहुः कुहूरवं विडम्ब्य प्रकोपितः पिकः इव प्रियोक्तिः अपि कदुष्णम् अक्षरम् आह // 38 // ___ व्याख्या-दुतः = सन्देशहरः, नल इति भावः / तथा = तेन प्रकारेण, निरस्य = निराकृत्य, विसर्जितः प्रेषितः सन्, कुतूहलेन = कौतुकेन, डिम्भेन= बालकेन, मुहुः वारं वारं, कुहरवं 3 कुहशब्द, विडम्ब्य = अनुकृत्य, प्रकोपितः = प्रापितकोपः, पिक इव = कोकिल इव, प्रियोक्तिः अपि=प्रियवचनः अपि, कदुष्णम् ईषत्परुषम्, अक्षरं = वाक्यम्, आह स्म अवदत् // 38 // ___ अनुवादः-दूत ( नल ) ने इस प्रकार निराकरण कर विसर्जित होकर कौतुकसे बालकसे वारंवार "कुह" ऐसे कोयलके स्वरका अनुकरण ( नकल ) कर कोपयुक्त किये गये कोयलके समान प्रियवचनवाले होकर भी कुछ कठोर वाक्य कहा // 38 // टिप्पणी-निरस्प = निर् + अस् + क्त्वा ( ल्यप् ) / कुहूरवं = कुहूश्चाऽसौ रवः, तम् (क० धा० ) / प्रियोक्तिः = प्रिया उक्तिः यस्य सः (बहु० ) / कदुष्णम् = ईषत् उष्णम् ( गति० ), तत् "कवं चोष्णे" इस सूत्र से 'कु' के स्थानमें "कत्" आदेश / इस पद्यमें उपमा अलङ्कार है // 38 // अहो ! मनस्त्वामनु तेऽपि तन्वते, त्वमप्यमीभ्यो विमुखीति कौतुकम् / क्व वा निधिनिर्धनमेति किं च तं स वा कवाट घटनिरस्यति // 9 // अन्वयः-( हे दमपन्ति ! ) ते अपि त्वाम् अनु मनः तन्वते, अहो ! त्वम् अपि अमीभ्यो विमुखी इति कौतुकम् / ( किं च ) क्व वा निधिः निर्धनम् एति ? च्च वा स कवाट घटयन् निरस्यति ? // 39 // व्याख्या - ते, अपि = इन्द्रादयो दिक्पाला अपि, त्वाम् अनु = त्वाम् उद्दिश्य, मनः = चित्तं, तन्वते = कुर्वन्ति, अहो = आश्चर्यम् / त्वम् अपि, अमीभ्यः= इन्द्रादिभ्यः, विमुखी = पराङ्मुखी, इति = इदं, ' कौतुकं = चित्रम् / किञ्च,