________________ नवमः सर्गः ( 10 त० ) / अतिपिच्छिले - पिच्छम् अस्याऽस्तीति पिच्छिल:, "लोमाऽदि. पामाऽऽदिपिच्छादिभ्यः शनेलचः' इस सूत्रसे और "पिच्छादिभ्य इलच्" इस वार्तिकसे इलच् प्रत्यय / अतिशयेन पिच्छिल:, तस्मिन् ( सुप्सुपा० ) / अपथेन = न पन्था अपथ, तेन ( न० ) "पथो विभाषा" इस सूत्रसे नजपूर्वक पथिन शब्दसे समासाऽन्त अप्रत्यय / “अपथं नपुंसकम" इससे नपुंसकलिङ्गता। स्त्रियोंको प्राणत्यागकी नौबत आनेपर भी पातिव्रत्यकी रक्षा करनी चाहिए, यह भाव है। इस पद्यमें अर्यान्तरन्यास अलङ्कार है।। 36 / / स्त्रिया मया वाग्मिषु तेषु शक्यते न लातु सम्यग्विवरीतुमुत्तरम् / तदत्र मद्भाषितसूत्रपद्धती प्रबन्घृताऽस्तु प्रतिबन्धृता न ते // 37 // अन्वयः-(हे महोदय !) वाग्मिषु तेषु स्त्रिया मया उत्तरं सम्यक् विवरीतुं जातु न शक्यते / तत् अत्र मद्भाषितसूत्रपद्धतौ ते प्रबन्धृता अस्तु प्रतिबन्धृता न अस्तु / / 37 // _ व्याख्या-वाग्मिपु - वाचोयुक्तिपटुषु, तेषु = इन्द्रादिदेवेषु, स्त्रिया = नार्या, उत्तरं = प्रतिवाक्यं, सम्यक् = समीचीनं यथा तथा, विवरीतुं = प्रपञ्चयितुं, जातु = कदाचिदपि, न शक्यते = न पार्यते, तत् = तस्मात्कारणात्, अत्र = अस्यां, मद्भाषितसूत्रपद्धतौ = मदुक्तवचनसूत्रमार्गे विषये, ते = तव, प्रवन्धता = प्रबन्धकर्तृता, अस्तु = भवतु, प्रतिबन्धृता = प्रतिवन्धकर्तृता, न अस्तु = नो भवतु / मम निषेधोतरे त्वयाऽनुकूलेन भाव्यं न प्रतिकूलेनेति भावः // 37 // अनुवादः-(हे महोदय ! ) अत्यन्त वक्ता उन इन्द्र आदि दिक्पालों अबला मैं उत्तर नहीं दे सकती हैं। इस कारणसे मेरे वचनरूप सूत्रके मार्गमें आप प्रबन्धक हों, प्रतिबन्धक / रुकावट करनेवाले ) न हों॥ 37 // टिप्पणी-वाग्मिषु = प्रशस्ता वाक् अस्ति येषां ते वाग्मिनः, तेषु, वाच शब्दसे “वाचौ ग्मिनिः' इस सूत्रसे ग्मिनि प्रत्यय, "वाचोयुक्तिपटुर्वाग्मी" इत्यमरः / विवरीतुं = वि + वृज +तुमुन्, "वृतो वा" इससे इटका दीर्घ / "वितरीतुम्" ऐसे पाठमें वि+त+तुमुन् / देने के लिए यह अर्थ है / मद्भाषितसूत्रपद्धतौ-मया भाषितानि (तृ त०), मद्भाषितानि एव सूत्राणि (रूपक०) तेषां पद्धतिः, तस्याम् (ष० त.)। "सरणिः पद्धतिः पद्या" इत्यमरः / प्रबन्धृता - प्रबध्नातीति प्रबन्धा, प्र+बन्ध+ तृच् / प्रबन्धुर्भावः, प्रबन्ध + तल् + टाप् + सु / प्रतिबन्धृता-प्रतिबध्नातीति प्रतिबन्धा, प्रति+बन्ध+ तृच्