________________ 288 औषधीयचरितं महाकाव्यम् साक्षिणी ( 10 त० ) / विबुधः = "विदशा विबुधाः सुराः” इत्यमरः / पृच्छयते = प्रच्छ+लट् + ( कर्ममें )+त। सब कर्मोके साक्षी देवगण स्वयम नहीं जानते हैं, यह भाव है // 32 // अपि स्वमस्वप्नमसूषुपममी परस्य दाराननवेतुमेव माम्। स्वयं दुरण्याऽर्णवनाविकाः कथं स्पृशन्तु विज्ञाय हवाऽपि ताशीम् // 33 // अन्वयः-अमी अस्वप्नम् अपि स्वं मां परस्य दारान् अनवतुम् एव असूषुपन् / स्वयं दुरव्वार्णवनाविकाः कथं तादृशीं मां हृदा विज्ञाय अपि स्पृशन्तु ? // 33 // व्याख्या--अमी-इन्द्रादयो देवाः, अस्वप्नम् अपि = स्वप्नरहितम् अपि, स्वम् = आत्मानं, मां, परस्य, अन्यस्य, दारान् = पत्लीम्, अनवतुम् एव = अज्ञातुम् एव, असूषुपन् = स्वापितवन्तः / अन्यथा सर्वज्ञानां तेषामस्मिन्विषये कथमज्ञानमिति भावः / तदेवोपपादयति-स्वयमिति / स्वयम् = आत्मना एव, दुरध्वाऽर्णवनाविकाः = दुष्टमार्गरूपसमुद्रकर्णधाराः सन्त, कथं = केन प्रकारेण, तादृशीं = परस्त्रियं, मां, हृदा = अन्तःकरणेन, विज्ञाय अपि = ज्ञात्वा अपि, स्पृशन्तु = स्पृशेयुः, स्वयममार्गनिवारकाणाममार्गप्रवृत्तिरयोग्येति भावः // 33 // अनुवाद:-इन्द्र आदि इन देवताओंने स्वप्नरहित होनेपर भी अपनेको मुझे परस्त्री न जाननेके लिए ही सुला लिया। स्वयम् दुष्ट मार्गरूप समुद्रसे तारनेवाले कर्णधार होते हुए वे कैसे वसी (परस्त्री ) मुझे हृदयसे जानकर भी स्पर्श करेंगे? / / 33 / / टिप्पणी-अस्वप्नम् = अविद्यमान: स्वप्नो यस्य, तम् (नबहु०), अनवैतुम्-न अवैतुम् / नञ्०.)। असूषुपन् = स्वप् +णि+लुङ् / देवतालोग अपनेको नहीं सुलाते तो सर्वज्ञ होनेपर भी उनका इस अंशमें ( "मुझे वरण करो" ऐसी प्रार्थना करनेमें ) कैसे अज्ञान होता, यह भाव है। दुरध्वाऽर्णधनाविकाः = दुष्टः अध्वा दुग्ध्वः ( गति० ), "उपसर्गादध्वनः" इससे समासान्त अच् / "व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः / " इत्यमरः / नावा तरन्तीति नाविकाः, नौ शब्दसे "नौद्वयचेष्ठन्" इस सूत्रसे ठन् ( इक ) प्रत्यय / दुरध्व एव अर्णवः ( रूपक०.), तस्य नाविकाः (10 त०)। विज्ञाय = वि+ज्ञा+क्त्वा (ल्यप् ) / स्पृशन्तु = स्पृश + लोट् + झिः। कुमार्गके निवारक इन्द्र आदि देवताओंकी स्वयम कुमार्गमें प्रवृत्ति अनुचित है, यह भाव है / / 33 / /