________________ 286 नैषधीयचरितं महाकाव्यम् अन्वयः-अदो निगद्य एव नताऽऽस्यया तया श्रुतो लगित्वा अभिहिता आलि. आलपत्-"( हे महोदय ! ) इयं ह्रिया मे हृदयं प्रविश्य यत् आह, मन्मुखाऽध्वना विनिर्यत् तत् आकर्णय // 30 // व्याख्या-अदः = इदं वचः, निगद्य एव = उक्त्वा एव, नताऽऽस्यया = अवनतवदनया, तया = दमयन्त्या, श्रुतौ = श्रोत्रे, लगित्वा = आसन्ना भूत्वा, अभिहिता = कथिता, आलि: सखी, आलपत् = आलपितवती, (हे महोदय ! ) इयं = दमयन्ति, ह्रिया = लज्जया हेतुना, मे = मम, हृदयं = हृत्, प्रविश्य - प्रवेशं कृत्वा, यत् = वचनम्, आह = ब्रूते, मन्मुखाऽध्वना = मद्वदनमार्गेण, विनिर्यत् = बहिनिर्गच्छत्, तत् = वचनम्, आकर्णय = शृणु / / 30 // ___ अनुवादः-ऐसा कहकर ही नम्र मुख करनेवाली दमयन्तीने कानके पास जाकर सखीसे कुछ कहा-तब सखी बोली ( हे महोदय ! ) दमयन्तिने लज्जासे मेरे हृदयमें प्रवेश कर जो कहा है, मेरे मुख रूप मार्ग से निकलते हुए उस वचनको आप सुनिए // 30 // __ टिप्पणी-निगद्य = नि + गद् + क्त्वा ( ल्यप् ) / नताऽस्यया = नतम् आस्यं यस्याः सा नताऽऽस्या, तया ( वहु० ) / लगित्वा = लग+क्त्वा / आलपत् = आङ् + लप् + लङ्+तिप् / मन्मुखाऽध्वना-मम मुखम् ( ष० त० ) तदेव अध्वा, तेन ( रूपक० ) / विनियंत् =वि + निर् + इण् + लट् ( शतृ )+ सु / आकर्णय = आ+कर्ण+णिच् + लोट् + सिप् // 30 // बिभेति चिन्तामपि कर्तुमीदशों चिराय चित्तापितनैषधेश्वरा। मणालतन्तुच्छिदुरा सतीस्थितिलवादपि टयति चापलात् किल // 30 // अन्वयः-- ( हे महोदय ! ) चिराय चित्तापितनैषधेश्वरा ( इयम् ) ईदृशीं चिन्ताम् अपि कर्तुम बिभेति, ( यतः ) मृणालतन्तुच्छिदुरा सतीस्थिति: लवात् अपि चापलात् त्रुटयति किल // 31 // व्याख्या--चिराय = चिरात्प्रभृति, चित्ताऽपितनैषधेश्वरा = मनःस्थापितनला, इयमिति शेषः। ईदृशीम = एतादृशी, महेन्द्राऽऽदिपरपुरुषविषयामिति भावः, चिन्ताम् अपि = विचारम् अपि, कर्तुं = विधातुं, बिभेति = त्रस्यति, किमुत महेन्द्रादिवरणं कर्तु मिति भावः / यतः मृणालतन्तुच्छिदुरा : बिससूत्र च्छेदस्वभावा, सतीस्थितिः = पतिव्रतामर्यादा, लवात् अपि = अल्पात् अपि, चापलात् = चाञ्चल्यात्, अधिकात्किमुत इति भावः, त्रुटयति = त्रुटति, किल = खलु // 31 //