________________ 282 नैषधीयचरितं महाकाव्यम् अन्वयः- ( हे महोदय ! ) भवति त्वादृशि वृथापरीहास इति वाक् प्रगल्भता, न न इति च वाक् विगर्हणा, अनुत्तरात् अवज्ञा भवति; अतः ते प्रतिवाचं प्रदित्सुः अस्मि / / 25 // ___ व्याख्या- भवति = पूज्ये, त्वादृशि = त्वत्सदृशे पुरुष, वृथापरीहासः = व्यर्थोपहासः, इति = एतादृशी, वाक् = वाणी, प्रगल्भता = धृष्टता, न न इति च वाक् = अत्यन्तनिषेधोक्तिश्च, विगर्हणा = विशेषनिन्दा, अनुत्तरात्उत्तराऽप्रदानात्, अवज्ञा = अनादरः, भवति = विद्यते, अतः = एभ्यो हेतुभ्यः, ते तुभ्यं, प्रतिवाचं = प्रत्युत्तरं, प्रदित्सुः-प्रदातुमिच्छु:, अस्मि = भवामि / वस्तुतस्तु भवद्वाक्यस्य प्रत्युत्तराजहत्वेऽपि दाक्षिण्याद्वदामीति भावः // 25 // अनुवाद:--(हे महोदय ! ) पूजनीय आप जैसे पुरुषमें व्यर्थ उपहास है ऐसा कहना ढिठाई है, नहीं नहीं, ऐसा कहना विशेष निन्दा है और उत्तर न देनेसे अनादर होता है इसलिए आपको उत्तर देना चाहती है // 25 // "टिप्पणी-परीहासः - परिहसनम्, परि+हस+घञ् + सु / "उपसर्गस्य घञ्यमनुप्ये बहुलम्" इससे 'परि' उपसर्गके इकारका दीर्घ। प्रगल्भता = प्रगल्भस्य भावः, प्रगल्भ+तल +टाप्+सु / अनुत्तरात् = न उत्तरं, तस्मात् ( नञ्०)। प्रदित्सुः = प्रदातुम् इच्छुः, प्र+दा+सन् + उ:+सु / यद्यपि आपका वचन उत्तर देनेके लिए योग्य नहीं है तो भी मैं दाक्षिण्यसे उत्तर देना चाहती हूँ, यह भाव है / ' 25 // कथं न तेषां कृपयापि वागसावसावि मानुष्यकलाञ्छने जने / / स्वभावभक्तिप्रवणं प्रतीश्वराः कया न वाचा मुबमुगिरन्ति वा / / 26 / / अन्वयः-(हे महोदय ! ) तेषां कृपया अपि मानुष्यकलाञ्छने जने असौ वाक् असावि / वा ईश्वराः स्वभावभक्तिप्रवणं प्रति कया वाचा मुदं न उगिरन्ति ? // 26 // व्याख्या--तेषाम् = इन्द्रादीनां दिक्पालानां, कृपया अपि = दयया अपि, मानुष्यकलाञ्छने = नरत्त्वचिह्न, जने = मयि, असौ = इय, वाक् = वाणी, मां वृणीस्वेत्याकारिकेति भाव / असावि = उत्पन्ना। वा = अथ वा, ईश्वराःस्वामिनः, स्वभावभक्तिप्रवणं प्रति = निसर्गभक्तितत्परं प्रति, कया, वाचा = वाण्या, मुदं = हर्ष, न उगिरन्ति = न प्रकाशयन्ति, प्रभवो भक्तवात्सल्यानीचमपि भक्तजनमत्युच्चतयाऽपि वाचा सम्मानयन्तीति भावः / / 26 //