________________ 278 नैषधीयचरितं महाकाव्यम् इत्यर्थः / निमेषम् अपि = निमेषपरिमितं समयम् अपि, विलम्बते = विलम्ब करोति, रतेः पतिः =कामदेवः, रुषा = कोपेन, दिवौकसां = देवानां, शरव्योकरणे = लक्ष्यीकरणे, तथा तथा = तावत् तावत्, अद्य = अस्मिन्काले, त्वरते = त्वरां करोति, शीघ्रमेव प्रत्युत्तरं देहीति भावः // 20 // अनुवादः-(हे दमयन्ति ! ) यह मैं जितना जितना यहाँपर तुम्हारे अनुरोधसे पलक मारनेके समयतक भी विलम्ब करता है, कामदेव क्रोधसे देवताओंको अपने , बाणोंका निशाना बनानेके लिए उतना उतना इस समय शीव्रता कर रहा है / / 20 / / टिप्पणी - त्वदपेक्षया =तव अपेक्षा (ष० त० ) तया। निमेषम् - कालके अत्यन्त संयोगमें द्वितीया। विलम्बते - वि+लबि+लट् + त / शरव्यीकरणे = अशरव्याणि शरव्याणि यथा सम्पद्यन्ते तथा करणं तस्मिन्, शरव्य+ वि+ + ल्युट + डि / त्वरते = त्वरा+लट+त / देवताओंको शीघ्र उत्तर दो यह भाव है // 20 // इयच्चिरस्याऽवदधन्ति मत्पथे किमिन्द्रनेत्राण्यशनिनं निर्ममो। धिगस्तु मां सत्वरकार्यमन्थरं स्थितः परप्रेष्यगुणोऽपि यत्र न / / " 21 / / अन्वयः--(हे दमयन्ति ! ) मत्पथे इयच्चिरस्य अवदधन्ति इन्द्रनेत्राणि अशनिः न निर्ममौ किम् ? सत्वरकार्यमन्थरं मां धिक् अस्तु, यत्र परप्रेष्यगुणः अपि न स्थितः // 21 // व्याख्या-मत्पथे = मदागमनमार्गे, इयच्चिरस्य = इच्चिरम्, अवदधन्ति = अवहितानि सन्ति, इन्द्रनेत्राणि = शक्रनयनानि ( कर्माणि ), अशनिः = वज्रः, न निर्ममौ कि = नो निर्मितवान् किम् ? वज्रमयानि तानि, नो चेत् तेषां विलम्बसहनदाढ कथं स्यादिति भावः / सत्वरकार्यमन्थरं = शीघ्रकर्तव्यमन्द, मां= देवदूत, धिक् अस्तु मयेयं निन्दा प्राप्तेति भावः / यतः-यत्र = यस्मिन् मयि, परप्रेप्यगुणः अपि = अन्यकर्मकरणः, क्षिप्रकारित्वरूप इति शेपः / अपि, न स्थितः नो विद्यमानः, त्वदीयप्रत्युत्तरविलम्बनान्ममेयमदक्षता प्राप्तेत्यही / कप्टं परप्रेष्यत्वमिति भावः / / 21 // ___ अनुवादः- ( हे दमयन्ति | ) मेरे आगमनके मार्गमें इतने अधिक कालतक प्रतीक्षा करनेवाले इन्द्रके नेत्रोंको वज्रने नहीं बनाया क्या ? शीघ्र कार्य में मन्द होनेवाले मुझे धिक्कार हो, जिसमें दूसरेका दूत होनेका गुण भी मौजूद नहीं है // 21 //