________________ नवमः सर्गः 271 भवत्याः, स्पृहाम् = इच्छां, मितया = अल्पया, गिरा = वाण्या, किं न अनुरुन्धे = किं न अनुवर्ते ?, अनुरोत्स्याम्येवेत्यर्थः / कुलस्वरूपमात्रं कथयामीति भावः / मां = दिक्पतिदूतं, हिमांऽशुवंशस्य = चन्द्रवंशस्य, करीरम् एव = अङ्कुरम् एव, निशम्य = श्रुत्वा, फलेग्रहिग्रहा= सफलाऽऽग्रहा, न असि कि = नो भवसि किम् ? // 12 // अनुवादः-तो भी हे आग्रह करनेवाली ( दमयन्ति ) ! अथ वा इस विषयमें आपके अभिलाषका परिमित वचनसे क्यों अनुवर्तन न करूं ? मुझे चन्द्रवंशका अकुर सुनकर आपका आग्रह सफल नहीं है क्या ? // 12 // टिप्पणी-निर्वघ्नति = निर्बध्नातीति निर्बध्नती, तत्सम्बुद्धौ, निर्+बन्ध+ लट् ( शतृ )+ ङीप् + सु / अनुरुन्धे = अनु+रुध् + लट् + इट् / हिमांशुवंशस्य = हिमांऽशोः वंशः, तस्य (प० त०)। करीरम् = "वंश ऽङकुरे करीरोऽस्त्री'' इत्यमरः / यहाँपर वंश ( बाँस ) से उसका अङकुर छोटा होता है उसी तरह चन्द्रवंशका मैं एक छोटा ( सामान्य ) पुरुष हूँ ऐसा भाव प्रकाशित होता है। निशम्य = नि+शम् + क्त्वा ( ल्यप् ) / फलेग्रहिग्रहा= फलं गलातीति फलेग्रहिः, फल+उपपदपूर्वक ग्रह धातुसे “फलेग्रहिरात्मम्भरिश्च" इस सूत्रसे उपपदका एदन्तत्व और इन् प्रत्ययका निपातन / फलेग्रहिः ग्रहः यस्याः सा ( बहु० ) / इस पद्य में रूपक अलङ्कार है / / 1.3 // महाजनाऽऽचारपरम्परेदृशी स्वनाम नामाऽददते न साधवः / अतोऽभिषातुं न तदुत्सहे पुनर्जनः किलाऽऽचारमुचं विगायति // 13 // अन्वयः .. ( हे दमयन्ति ! ) महाजनाऽऽचारपरम्परा ईदृशी, ( यत् ) साधवः स्वनाम न आददते नाम / अतः तत् पुनः अभिधातुं न उत्सहे; जनः आचारमुचं विगायति किल // 13 // . व्याख्या-कुलमुक्तं नाम तु न वाच्यमित्याह-महाजनेति / महाजनाऽऽचारपरम्परा = सज्जनवृत्तसम्प्रदायः, ईदृशी = एतादृशी, तामाह---स्वनामेति / साधवः = सन्तः, स्वनाम = आत्मनामधेयं, न आददते = नो गल्लन्ति, नाम = प्रसिद्धौ / अतः = अस्मात् कारणात्, स्वनामग्रहणनिषेधादिति भावः / तत् = नाम, पुनः = एवं, अभिधातुं = वक्तुं, न उत्सहे = उत्साहं न करोमीति भावः / अत्र हेतुमाह -जन इति / जनः = लोकः, आचरमुचं = सदाचार. त्यागिनं जनं, विगायति = निन्दति / किल = निश्चयेन // 13 //