________________ 270 नैषधीयचरितं महाकाव्यम् टिप्पणी-जदुद्भावनं = तस्य ( कुलस्य ) उद्भावनम् (10 त० ) / औचिती = उचित+ष्यञ् + ङीष् +मुः। उपसेदुपः = उप+सद् + क्वसुः+ इत् // 10 // इति प्रतीत्येव मयाऽवधीरिते तवाऽपि निर्वन्धरमो न शोभते। हरित्पतीनां प्रतिवाचिकं प्रति श्रमो गिरां ते घटते हि सम्प्रति // 11 // अन्वयः- हे दमयन्ति ! ) इति प्रतीत्य एव मया अवधीरिते (सति ) तव अपि निर्वन्धरसः न शोभते / हि सम्प्रति हरित्पतीनां प्रतिवाचिकं प्रति ते गिरां श्रमो घटते // 11 / / / व्याख्या-इति = इत्थं, प्रतीत्य एव = निश्चित्य एव, मया = वक्त्रा, अवधीरिते = तिरस्कृते, उपेक्षिते सनीति भावः, कुलनामप्रश्न इति शेपः / तव अपि = भवत्या अपि, निर्बन्धरसः = आग्रहाऽनुरागः, कुलनामज्ञानविषयक इति शेपः / न शोभते - शोभां न प्राप्नोति / हि = यस्मात् कारणात, सम्प्रति = अधुना, हरित्पतीनां = दिक्पालानाम्, इन्द्रादीनामिति भावः / प्रतिवाचिकं प्रति = प्रतिसन्देशं प्रति, उत्तरं प्रतीति भावः / ते = भवत्याः, गिरां = वचसां, श्रमः = प्रयत्नः, घटते = युज्यते // 11 // ___ अनुवादः-(हे दमयन्ति ! ) ऐसा निश्चय करके ही मुझसे उपेक्षित कुल और नामके प्रश्नमें आपके आग्रहका अनुराग नहीं मुहाता है। क्योंकि इस समय इन्द्र आदि दिक्पालोंके सन्देशके उत्तर देने में ही आपके वचनोंका प्रयत्न उचित है // 11 // टिप्पणी-प्रतीत्य = प्रति + इण् + क्त्वा ( ल्यप् ) / निर्बन्धरसः = निर्बन्धस्य रसः (प० त० ) / हरित्पतीनां हरितां पतयः, तेपाम ( प० त०)। प्रतिवाचिक = वाचिकं वाचिकं प्रति ( वीप्सारूप यथाके अर्थमें अव्ययोभाव ) // 11 // तथाऽपि निर्बध्नति ! तेऽथवास्पृहामिहाऽनुरुन्धे मितया न कि गिरा ? हिमांशुवंशस्य करीरमेव मां निशम्य किं नाऽसि फलेग्रहिग्रहा? // 12: / अन्वयः-तथाऽपि हे निर्बध्नति ! अथ वा इह ते स्पृहां मितया गिरा कि न अनुरुन्धे ? मां हिमांऽशुवंशस्य करीरम् एव निशम्य फलेग्रहिग्रहान असि किम् ? // 2 // __ व्याख्या-तथाऽपि = कुलनामकथनस्य वैयर्थेऽपि, हे निर्बध्नति ! = हे आग्रहशीले !, दमयन्ति !, अथ वा = पक्षान्तरे, इह = अस्मिन् अर्थे, ते -