________________ अथ नवमः सर्गः लोकाऽलोकविधातारं कालहेतुमहेतुकम् / ... आदितेयपति देवमादित्यं समुपास्महे // इतीयमसिध्रुवविधमेङ्गितः स्फुटामनिच्छा विवरीतुमुत्सुका। तदुक्तिमात्रश्रवणेन्छयाऽशृणोद्दिगीशसन्देशगिरो न गौरवात् / 1 // अन्वयः-इयम् अक्षिध्रुवविभ्रमेङ्गितः स्फुटाम् अनिच्छा विवरीतुम् उत्सुका ( सती ) तदुक्तिमात्रश्रवणेच्छया दिगीशसन्देशगिरः अशृणोत्, गौरवात न ( अशृणोत् ) // 1 // व्याख्या-अथ इन्द्रादिसन्देशश्रवणाऽनन्तरं दमयन्त्यभिप्राय वर्णयनि-- इतीति / इयं = दमयन्ती, अक्षिध्रुवविभ्रमेङ्गितः = नयन भ्रूविकारचेष्टाभिः, स्फुटां = व्यक्ताम्, अनिच्छाम् = अस्पृहाम, इन्द्रादिविपयामिति शेषः / विवरीतुं = प्रकाशयितुम्, उत्सुका = उद्युक्ता सती, तदुक्तिमात्रश्रवणेच्छया = नलवचनमात्राऽऽकर्णनाऽभिलाषेण, दिगीशसन्देशगिरः = इन्द्रादिदिक्पालसन्देशवचनानि, अशृणोत् = श्रुतवती, गौरवात् न = दिगीशानामादगत् न अशृणोत् // 1 // अनुवादः- दमयन्तीने नेत्रों और भौंहोंके विकारकी चेष्टाओंसे व्यक्त हुई अनिच्छाको प्रकाशित करनेके लिए तत्पर होकर नलके वचनमात्रको सुननेकी इच्छासे इन्द्र आदि दिक्पालोंके सन्देशवचनों को सुना, इन्द्र आदिके आदरसे नहीं // 1 // टिप्पणी--अक्षिध्रुवविभ्रमेङ्गिनः = अक्षिणी च ध्रुवौ च अक्षिध्रुवम्, "अचतुर०" इत्यादि मूत्रसे समाहारद्वन्द्व और समासान्त अच् प्रत्ययका निपातन / अक्षि त्रुवस्य विकाराः (प० त०), ते एव इङ्गितानि तैः ( रूपक० ) / अनिच्छा = न इच्छा, ताम् ( नञ् ) विवरीतुं = वि++तुमुन्, "वृतो वा" इससे इटका वैकल्पिक दीर्घ / उत्सुका="इष्टाऽर्थोद्युक्त उत्सुकः" इत्यमरः, / तदुक्तिमात्रश्रवणेच्छया = तस्य ( नलस्य ) उक्तिः (प० त० ), तदुक्तिरेव तदुक्तिमात्रम् ( रूपक० ) / श्रवणस्य इच्छा (प० त• ), तदुक्तिमात्रस्य श्रवणेच्छा, तस्या (प० त०) दिगीशसन्देशगिरः = दिशाम् ईशा: ( प० त० ) /