________________ अष्टमः सर्ग: म्याख्या कविराजराजिमुकुटाऽलङ्कारहीरः = पण्डितश्रेष्ठश्रेणीकिरीटभूषणवज्रमणिः, श्रीहीरः = श्रीहीरनामकः, मामल्लदेवी च= मामल्लदेवीनाम्नी च, जितेन्द्रियचयं = वशीकृतहृषीक्समूह, यं, श्रीहर्ष = श्रीहर्षनामकं, सुतं = पुत्रं, सुषुवे = जनयामास / कविकुलाऽदृष्टाऽध्वपान्थे = कवयितृसमूहाऽनवलोकितमार्गनित्यपथिके, चारुणि = मनोहरे, बरसेनिचरिते = नलचरित्र, तस्य = श्रीहर्षस्य, महाकाव्ये = बृहत्काव्ये, निसर्गोज्ज्वलः = स्वभावसुन्दरः, अयम् - एषः, अष्टमः = अष्टानां पूरणः, सर्गः = अध्यायः, अगात् = गतः / / 109 // अनुवादः--श्रेष्ठ पण्डितोंकी श्रेणीके मुकुटके अलङ्कार हीरेके समान श्रीहीर और मामल्लदेवीने इन्द्रियोंको जीतनेवाले जिस श्रीहर्ष नामके पुत्रको उत्पन्न किया, कविकुलसे अदृष्ट मार्गके नित्य पथिक मनोहर नलचरितनामक श्रीहर्षके महाकाव्यमें स्वभावसे सुन्दर यह आठवां सर्ग गया ( समाप्त हुआ)॥१०९॥ ___ टिप्पणी- कविकुलाऽदृष्टाऽध्वपान्थे = कवीनां कुलं (प० त०) / न दृष्टः ( न०), अदृष्टश्चाऽसौ अध्वा (क० धा० ), कविकुलस्य अदृष्टाध्या (10 त० ), तस्य पान्थं, तस्मिन् (10 त० ) / वरसेनिचरिते = वीरसेनस्या:पत्यं पुमान् वैरसेनिः “अत इन्" इससे इन् / वरसेनिचरितं तस्मिन् (प० त०), अष्टमः = अष्टानां पूरणः, अष्टन्+डट् ( मट् )+ सु // 109 / / इति श्रीनैषधीयचरितव्याख्यायां चन्द्रकलाऽ भिख्यायामष्टमः सर्गः।