________________ 21. मैषधीयचरितं महाकाव्यम् अथ मन्मथमग्नम् अग्नि नूतनाभिः केलीभिः उद्धर, वा शमने उदितदयं मन आसादय; इत्यं नो वा यदि, अथ तत् मन्मथमग्नं वरुणं वृणीथाः // 108 // व्याख्या हे तनूदरि = हे कृशोदरि !, नूतनाभिः = नवीनाभिः, केलीभिःक्रीडाभिः, मन्मथमग्नं = कामनिमग्नम्, इन्द्रं मघवानम्, आनन्दय = आनन्दितं कुरु, अथ = अथ वा, मन्मथमग्नं कामनिमग्नम्, अग्निम् = अनलं, नतनाभिः केलीभिः, उद्धर - उद्धारं कुरु, वा = अथ वा, शमने = यमे, उदितदयं = जातकृपं, मनः = चित्तम, आसादय = निवेशय, इत्थम् = एवं, नो वा यदि = न क्रियते चेत्, अथ = अनन्तरं, तत् - तर्हि, मन्मथमग्नं = कामनिमग्नं, वरुणं प्रचेतसं, वृणीथाः = वृणीष्व एष्वेकतमवरणेन महोत्यं सफलीकुविति भावः // 108 // ___ अनुवाद:--हे कृशोदरि! आप नवीन क्रीडाओंसे कामनिमग्न इन्द्रको आनन्दित करें, अथ वा कामनिमग्न अग्निको नवीन क्रीड़ाओंसे उद्धार करें, अथ वा यमराजमें दयापूर्ण चित्तका स्थापन करें, यदि ऐसा नहीं तो कामनिमग्न वरुणको आप वरण करें / / 108 // टिप्पणी--तन्दरि = तनु उदरं यस्याः सा तनूदरी, तत्सम्बुद्धी ( बहु० ) / मन्मथमग्नं मन्मथे मग्नः, तम् ( स० त० ), आनन्दय+आ+नदि + णिच् +लोट् + सिप / उद्धर = उद्+ध + लोट् + सिप् / उदितदयम् = उदिता दया यस्मिन्, तत् ( वहु ) / आसादय = आइ+सद् +णिच्+लोट् + सिप् / वृणीथाः = वड+लिङ्+थास् / हे दमयन्ति / इन्द्र आदि दिक्पालोमें एकका वरण कर मेरे दौत्यको सफल कीजिए, यह भाव है। वसन्ततिलका छन्द है। 108 // . श्रीहर्ष कविराजराजिमुकुटाऽलङ्कारहीरः / सुतं श्रीहोरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / तस्याऽगादयमष्टमः कविकुलाऽदृष्टाध्वपान्थे महा काव्ये चारुणि वरसेनिचरिते सर्गो निसर्गोज्ज्वलः / / 109 // इति श्रीनैषधीयचरिते महाकाव्येऽष्टमः सर्गः। अन्वयः-कविराजराजिमुकुटाऽलङ्कारहीरः श्रीहीरः मामल्लदेवी च जितेन्द्रियचयं यं श्रीहर्ष सुतं सुपूबे / कविकुलाऽदृष्टाऽध्वपान्थे चारुणि वैरनिचरिते तस्य महाकाव्ये निसर्गाज्ज्वल: अयम् अष्टमः सर्गः अगात् // 109 / /