SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 64 नैषधीयचरितं महाकाव्यम् स्वयं हयस्य आशयं वेद किल, "गिरा अलम्" इति मौनम आस्थितं च ( तं हयं क्षितिपाकशासनः स आरुरोह ) // 6 // व्याख्या-चलाचलप्रोथतया = अतिचञ्चलनासिकल्वेन, महीभृते = राज्ञे, नलायेत्यर्थः / स्ववेगदान् = आत्मजवगर्वान्, वक्त प्रतिपादयितुम् = उत्सुकम्, इव =उत्कण्ठितम् इव, तर्हि किमर्थ स्ववेगदर्पो न प्रतिपादित इत्याशङ्कयाहअलमिति / अयं = महीमृद, नल इत्यर्थः / स्वयम् = आत्मना एव, हुयस्य - अश्वस्य, आशयम् = अभिप्रायं, वेद = जानाति, किल-निश्चयेन, अतः गिरा = वाण्या, वेगदर्पप्रकाशनकारिण्येति शेषः / अलं = पर्याप्तं, राज्ञः स्वयमभिज्ञत्वाद् गिरा साध्यं नास्तीति भावः / इति = अनेन कारणेन, मोनं = तूष्णीकत्वम् आस्थितं च = आश्रितं च ( तं हयं क्षितिपाकशासनः स आरुरोह)॥६॥ ___अनुवाद:-अत्यन्त चञ्चल नाक होनेसे राजाको अपने वेगके दर्पको कहनेमें उत्कण्ठितके समान परन्तु ये ( राजा ) स्वयम् घोड़ेका अभिप्राय जानते हैं, वाणीसे क्या? इस कारण मोनको धारण करनेवाने / घोड़े के ऊपर राजा आरूढ़ हुए ) // 6 // टिप्पणी-चलाचलप्रोथतया = चलनशीलं चलाचलं, 'चल' धातुसे "चरिचलिपतिवदीनां वा द्वित्वमच्याक चाभ्यासस्येति वक्तव्यम्" इस वार्तिकसे अच् प्रत्यय. विकल्पसे द्वित्व और आक आगम। "चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् / " इत्यमरः / चलाचलं प्रोथं यस्य सः (बह ) / "घोणा तु प्रोथमस्त्रियाम्" इत्यमरः / चलाचलप्रोथस्य भावश्चलाचलाचलप्रोथता, तया, चलाचलप्रोथ + तल + टाप्+टा। महीमृते-महीं बिभर्तीति महीभुत्, तस्मै, मही +म+विवप् + / "क्रियया यमभिप्रति सोऽपि सम्प्रदानम्' इससे सम्प्रदानसंज्ञा होकर चतुर्थी / स्ववेगदान-स्वस्य वेगः (10 त०) तस्य दर्पाः, तान् (ष० त०)। वक्तुं वच+तुमुन् / आशयम् = "अभिप्रायश्छन्दः आशयः" इत्यमरः वेद="विद् ज्ञाने" धातुसे लट् "विदो लंटो वा" इस सूत्र से तिप्के स्थानमें णल् / गिरा "गम्यमानाऽपि क्रिया कारकविभक्ती प्रयोजिका" इससे तृतीया / मौनं = मुनेर्भावो मौनम् तत्, मुनि + अण्+अम् आस्थितम् = आङ+स्था+क्तः+ अम् / इस पद्य में पूर्वार्द्ध मे वाच्या उत्प्रेक्षा और उत्तरार्द्ध में प्रतीयमाना उत्प्रेक्षा है, इस प्रकार दो उत्प्रेक्षाओंकी निरपेक्षतासे स्थिति होनेसे संसृष्टि अलंकार है। नलकी अश्वशास्त्रमें अभिज्ञता महाभारतके वनपर्वमें उल्लिखित है / / 60 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy