________________ 256 नैषधीयचरितं महाकाव्यम् प्र+सद ( सीद )+ लोट् + सिप् / अमृतरससे भी तुम्हारा अधररस स्वादुतर है यह भाव है // 104 // प्लुष्टश्चापेन रोपेरपि सह मकरेणाऽऽत्मभूः केतुनाऽभू -. द्धत्ता नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् / भ्रूभ्यां ते तन्दि ! धन्वी भवतु तव सितजैत्रभल्ल: स्मितैस्ता. दस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाऽधीनमीनध्वजाऽङ्कः / / 105 // अन्वयः-हे तन्वि ! आत्मभूः चापेन रोपः मकरेण केतुना च सह प्लुष्टः अभूत् / अथ ( सः ) त्वत्प्रसादात् नः मानसः नन्दनः सन् मनसिजतां ध म / (किञ्च ) ते भ्रूभ्यां धन्वी भवत्, तव सितैः स्मितः जैत्रभल्लः स्तात, त्वन्नेत्रचञ्चत्तरशफरयुगाऽधीनमीनध्वजाऽङ्कः अस्तु / / 105 // व्याख्या हे तन्वि = हे कृशाङ्गि!, आत्मभूः = कामदेवः, चापेन = धनुषा, रोपैः = बाणः, मकरेण = मकररूपेण, केतुना = ध्वजेन च, सह = समं, प्लुष्टः - दग्धः, अभूत् = अभवत्, अथ = इदानी, सः, त्वत्प्रसादात् = भवदनुग्रहात्, नः = अस्माकं, मानसः = मनःसम्बन्धी, नन्दनः = पुत्र , आनन्दयिता च, सन् = भवन, मनसिजतां = मनोभवतां, पत्तां = धारयतु, तव संगमवशादानन्दकः कामोऽस्मन्मनसि पुनरुत्पद्यतां, मनसिजत्वमपि धारयतु इति भावः / किञ्च ते = तव, भ्रूभ्याम् = अक्षिलोमभ्यां, धन्वी = चापवान्, भवतु = अस्तु, तव = भवत्याः, सितैः -निर्मलः, स्मित: मन्दहास्यः, जैत्रभल्ल:= जयशीलबाणशल्यः, स्तात् = भवतात् / त्वन्नेत्रचञ्चत्त रशफरयुगाऽधीनमीनध्वजाऽङ्कः-भवन्नयनातिचञ्चलमत्स्ययुगलाऽऽयत्तमत्स्यरूपध्वजलाञ्छनः, भवतु - अस्तु / त्वन्नेत्राभ्यां मीनध्वजवान् अस्तु इति भावः // 105 // अनुवादः ---हे कृ शाङ्गि! कामदेव अपने धनु-बाणों तथा मकररूप ध्वजके साथ ही दग्ध हो गया, अनन्तर वह तुम्हारे अनुग्रहसे हम लोगोंके मनको आनन्दित करता हुआ मनसिज ( मनोभव) के भावको धारण करे / वह तुम्हारी दो भौंहोंसे धनुर्धारी हो, तुम्हारे शुक्लवर्णवाले मन्द हास्योंसे जयशील भालोंसे युक्त हो और तुम्हारे नेत्र द्वयरूप अत्यन्त चञ्चल दो मत्स्थोंसे मत्स्वरूप ध्वजचिह्नवाला हो / 105 // टिप्पणी-आत्मभूः = आत्मना ( स्वयमेव ) भवतीति, आत्मन + भू + क्विप् ( उपपद० )+ सुः / रोपः = "पत्त्री रोप इषुर्द्वयोः" इत्यमरः / प्लुष्टः = प्लुष + क्तः + सुः / त्वत्प्रसादात्तव प्रसादः, तस्मात् (10 त०)। मानसः =