SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ 248 नैषधीयचरितं महाकाव्यम् अन्वयः-(हे दमयन्ति ! ) भवत्या अस्माकम् एतत् अन्तः हृदयं चिराय अध्यासितं तावत् / ( किन्तु) इदानी बहिः ( अपि ) त्वया मुरं विद्विषत उरः श्रिया इव अलक्रियताम् / / 95 // व्याख्या- भवत्या = त्वया, अस्म'कम्=इन्द्रादिदेवानाम् एतत् = अतिसमीपस्थम्, अन्तः अभ्यन्तरस्थं, हृदयम् = अन्तःकरणं, चिराय = बहुसमयायारभ्य, अध्यासितम = अधिष्ठितं, तावत् = एव, निरन्तर चिन्तयेति भावः / किन्तु इदानीम् = अधुना, बहिः = वाह्यम् अपि, हृदयं = वक्षःस्थलं, त्वया भवत्या, मुरं = मुरनामकस्य दैत्यस्य, विद्विषतः = शत्रोः, भगवतो विष्णोरित्यर्थः / उरः = वक्षःस्थलं, श्रिया इव = लक्ष्म्या इव, अलक्रियतां = भूष्यताम् // 95 // अनुवाद.-( हे दमयन्ति ! : आप हमारे भीतरी हृदय ( अन्तःकरण ) में बहुत कालसे स्थित हैं ही, इस समय बाहरी हृदय / छाती ) को भी, जैसे मुरारि ( विष्णु ) के हृदयको लक्ष्मी अलङ्कृत करती हैं वैसे ही अलङ्कृत कीजिए / / 15 // टिप्पणी-भवत्या =भातीति भवती, तया, भा+ डवतु+ डीप् + सुः / मुरं = "विद्विषतः" इस पदके योगमें "नलोकाऽव्यय०" इत्यादि सूत्रसे निषिद्ध षष्ठीका "द्विषःशतुर्वा' इससे विकल्पसे प्रतिप्रसव होनेसे एक पक्ष में द्वितीया / विद्विषतः विद्वेष्टीति विद्विषन्, तस्य / “द्विषोऽमित्रे" इससे शतृ, वि + द्विष् + लट् ( शतृ )+ ङस् / अलङक्रियताम् = अलम् + + लोट् ( कर्ममें )+त / इस पद्यमें उपमा अलङ्कार है / / 95 // ___दयोदयाचेतसि चेत्तवाऽभदलङकुरु यां, विफलो विलम्बः / भुवः स्वरादेशमथाऽऽचरामो भूमौ धृति यासि यदि स्वभूमौ / / 66 / / अन्वयः- ( हे दमयन्ति ! ) तव चेतसि दयोदयः अभूत् चेत् द्याम् अलङ्कुरु, विलम्बो विफलः / अथ स्वभूमी भूमौ धृति यासि यदि ( तर्हि ) भुवः स्वरादेशम् याचरामः / / 96 // व्याख्या-तव = भव-याः, चेतसि = चित्ते, दयोदयः = कृपाऽऽविर्भावः, अभूत् = जातः, चेत् = यदि, द्यां = स्वर्गम्, अल कुरु = भूपय, विलम्बः = कालाऽतिपातः, विफलः = निप्पलः / "शुभस्य शीघ्रम्” इति न्यायादितिभावः / अथ अथ वा, पक्षान्तरे, स्वभूमौ = निजजन्मस्थाने, भूमौ = भूलोके, धृति = सन्तोषं, यासि यदि = प्राप्नोपि चेत्, तहिं भुवः= भूमेः, स्वरादेश -
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy