________________ 242 नैषधीयचरितं महाकाव्यम् निर्वापयता = शमयता, स्वादीयसा = स्वादुतरेण, त्वच्चुम्बिना = भवद्गोचरेण, स्वमनोरथेन = आत्माऽभिलाषेण, एव, अध्वा = मार्गः, सुखम् = आनन्दपूर्वकम्, अनायासमिति भावः / गमित: = नीतः / इन्द्रादयो दिक्पाला अमृतमप्युत्सृज्य त्वत्प्राप्तिमनोरथेन प्राप्ता इति भावः // 7 // अनुवादः- ( हे दमयन्ति ! ) मार्गके सम्बलरूप अमृतका भी परित्याग करनेवाले उन इन्द्र आदि दिक्पालोंने भूख और प्यासको हटानेवाले अत्यन्त स्वादु आपकी प्राप्तिके अपने मनोरथसे ही मार्गको अनायास पार किया है / / 7 / / ____ टिप्पणी- अपास्तपाथेयसुधोपयोगैः = पथि साधु पाथेयम्, पथिन्, शब्दसे "पथ्यतिथिवसतिस्वपतेर्टब्” इस सूत्रसे ढन (एय) प्रत्यय / / "पाथेयं संवलं (10 त०) अपास्तः पाथेयसुधोपयोगो यस्ते, तः, ( बहु० ) / स्वादीयसा = अतिशयेन स्वादुः स्वादीयान्, तेन, स्वादु+ ईयसुन् +टा। त्वच्चुम्बिना = त्वां चुम्बतीति त्वच्चुम्बी, तेन, युस्मद+ चुबि+ णिनिः (उपपद०)+टा / मनोरथमें वक्त्रसंयोगका बाध होनेसे चुम्बनका संयोगरूप अर्थ लाक्षणिक है। स्वमनोरथेन = स्वस्य मनोरथस्तेन ( 10 त० ) / इन्द्र आदि दिक्पाल अमृतका भी उपयोग न करके भूख और प्यासको हटानेवाले तथा अमृतसे भी स्वादुतर आपकी प्राप्तिके अभिलाषसे ही यहाँ प्राप्त हुए हैं यह भाव है / / 87 // प्रिया मनोभूशरवावदाहे देवीस्त्वदर्थन निमज्जद्धिः / . सुरेषु सारैः क्रियतेऽधुना तैः पादाऽपंणाऽनुग्रह भूरियं भूः // 18 // अन्वयः-( हे दमयन्ति ! ) त्वदर्थेन प्रिया देवी: मनोभूशरदावदाहे निमज्जयद्भिः सुरेपु सारैः तः अधुना इयं भूः पादाऽर्पणाऽनुग्रहभूः क्रियते // 8 // ___ व्याख्या- त्वदर्थेन = भवत्प्रयोजनेन, प्रियाः = दयिताः, देवीः = शच्यादिदेवीः, मनोभूशरदावदाहे = कामबाणदवाऽग्निदाहे, स्वप्रवासेन विरहाऽनल इति भावः / निमज्जयद्भिः = निमग्नाः कुर्वद्भिः, स्वस्वपत्नीः कामपीडिताः विदधद्भिरिति भावः / सुरेषु = देवेषु, सारैः = श्रेष्ठः, इन्द्रादिभिरिति भावः / अधुना = इदानीम्, इयम् = एषा, भूः = विदर्भभूमिः, पादाऽर्पणाऽनुग्रहभूः = दथं विरहानलपीडिताः कृत्वा विदर्भान प्राप्ता इति भावः // 88 / / ___ अनुवादः-(हे दमयन्ति ! ) आपके लिए अपनी प्रिया इन्द्राणी आदि देवियोंको कामबाणरूप दवाग्निके दाहमें डालनेवाले इन्द्र आदि श्रेष्ठ दिक्पालोंने