________________ 236 - नैषधीयचरितं महाकाव्यम् यशसा, सितीकृतानि इव = शुक्लीकृतानि इव, तद्दो:प्रतापः = कामबाहु तेजोभिः, तापितानि इव = सन्तापितानि इव, अङ्गानिदेहाऽवयवान्, धत्ते = धारयति / कामो यममत्यर्थं पीडयतीति भावः / / 79 // ___ अनुवादः-(हे दमयन्ति ) यमराज आपके वियोगसे पाण्डवर्णवाले तथा तीव्र ज्वरसे जर्जर कामदेवकी कीर्तिसे सफेद बनाये गये के समान और कामदेवके बाहुओंके प्रतापसे सन्तापयुक्त अङ्गोंको धारण कर रहे हैं ऐसा प्रतीत होता है / 79 / / टिप्पणी-भवद्वियोगात् = भवत्या वियोगः, तस्मात् (प० त० ) / चण्डज्वरजर्जराणि = चण्डश्चाऽसो ज्वरः ( कं० धा० ), तेन जर्जराणि (तृ० त०, तानि / सितीकृतानि = असितानि सितानि यथा संपद्यन्ते तथा कृतानि, तानि, सित+च्चि+ + क्तः+ शस् / तद्दोः प्रतापैः तस्य दोषौ (प० त० ), तयोः प्रतापाः, तैः ( प० त० ) / तापितानि = तप+ णिच् + क्त+ शस् / इस पद्य में उत्प्रेक्षा अलङ्कार है / / 79 // यस्तन्वि ! भर्ता घुसणे। साय दिशः समालम्भनकौतुकिया / - तदा स चेतः प्रजिघाय तुभ्यं यदा गतो नैति निवृत्य पान्थः // 80 अन्वयः-हे तन्वि ! यः सायं घुनृणेन समालम्भनकौतुकिन्याः दिशः भर्ता स तदा तुभ्यं चेतः प्रजिघाय यदा गतः पान्थो निवृत्य न एति / / 80 // ____ व्याख्या-अथ वरुणस्य विरह वर्मयति ... य इत्यादि / हे तन्वि = हे कृशाङ्गि !, य:-देवः, सायं = सन्ध्यायां, अमृणेन = कुङ कुमेन, समालम्भनकौतुकिन्याः = अनुलेपनकुतूहलयुक्तायाः, आतपाऽरुण्यात्कुङ्कुमलिप्तवद्भासमानाया: इति भावः / दिश: आशायाः, पश्चिमदिशाया इति भावः। भर्ता स्वामी, सः = वरुणः, तदा = तस्मिन्काले. तुभ्यं = त्वदर्थं, चेत:-चित्तं, प्रजिघाय = प्रहितवान्, यदा = यस्मिन् काले, "निवृत्य न एति" इति वाक्यसाम त्,ि चित्रास्वात्यन्यतरनक्षत्रसमय इति भावः। गत: = यातः, पान्थ: - पथिकः, निवृत्य = परावृत्य, न एति = आयाति / वरुणचित्तं भवत्यामेव सानन्दं विहरति न निवर्तत इति भावः / / 60 / / अनुवाद:--हे कृशाङ्गि ! जो सायंकालमें केशरमें लेपन करने में कौतुक करनेवाली दिशा ! धूपकी अरुणतासे केशरसे लिप्तके समान प्रतीत होने वाली पश्चिम दिशा ) के स्वामी हैं उन वरुणदेवने उस समय ( चित्रा और स्वातीमें एकके समयमें ) तुम्हारे लिए चित्तको भेजा जब कि गया हुआ पथिक लौटकर नहीं आता है / / 80 //