________________ अष्टमः सर्ग: शरैरजलं कुसुमाऽयुधस्य कदय॑मानस्तव कारणाय / - अभ्यर्वद्धिविनिवेद्यमानादप्येष मन्ये कुसुमाद बिभेति // 71 // अन्वयः (हे दमयन्ति ! ) तव कारणाय कुसुमायुधस्य शरैः अजस्र कदर्थ्यमानः एषः, अभ्यर्चयद्भिः विनिवेद्यमानात् अपि कुसुमात् बिभेति, मन्ये // 75 // व्याख्या-( हे दमयन्ति ! ) तव = भवत्याः, कारणाय = हेतवे, त्वत्कृत इति भावः / कुसुमाऽऽयुधस्य = कामदेवस्य, शरैः = बाणैः, पुष्पैः, अजस्र = नित्यं, कदर्थ्यमानः = पीड्यमानः, एषः = अग्निदेवः, अभ्यद्भिः = पूजयद्भिजनैः, विनिवेद्यमानात् अपि = समर्प्यमाणात् अपि, कुसुमात् = पुष्पात्, 'विभेति = त्रस्यति, इति, मन्ये - जाने / / 75 / / अनुवादः - ( हे दमयन्ति ! ) आपके लिए कामदेवके बाणरूप पुष्पोंसे निरन्तर पीडित होते हुए ये ( अग्निदेव ) पूजा करनेवालोंसे समर्पण किये गये फूलसे भी डरते हैं मैं ऐसा मानता हूँ / / 75 / / टिप्पणी --- कारणाय = "तादर्थ्य चतुर्थी वाच्या" इससे तादयं में चतुर्थी / कुसुमायुधस्य = कुसुमानि आयुधानि यस्य, तस्य ( बहु० / / कदर्थ्यमान: - कुत्सितः अर्थः कदर्थः ( गति० ), कदर्थ्यते इति / कदर्थ + काङ् + लट् ( शानच् ), सुः ( कर्ममें ) / अभ्यचयद्भिः = अभि + अर्च + णिच + लट ( शतृ ) + भिस् / विनिवेद्यमानात् =वि + नि + विद्+णिच् + लट् (शानच्) + इसिः ( कर्म में ) / इस पद्य उत्प्रेक्षा अलङ्कार है / / 75 // स्मरेन्धने वक्षसि तेन दत्ता संपतिका शवलवल्लिचित्रा। चकास्ति चेतोभवपावकस्य धूनाऽऽविला कोलपरम्परेव // 76 / / अन्वयः- (हे दमयन्ति ! .) तेन स्मरेन्धने वक्षसि दत्ता शैवलवल्लिचित्रा संवर्तिका चेतोमवपावकस्य धमाऽऽविला कीलपरम्परा इव चकास्ति // 76 // व्याख्या--तेन = अग्निदेवेन, स्मरेन्धने - कामाऽग्निदाह्ये, वक्षसिउरमि, दत्ता = न्यस्ता, तापशान्तय इति शेषः / शैवलवल्लिचित्रा = शैवाललताक—रा. संवर्तिका = कमलनवदलम्, चेतोभवपाधकस्य = कामाऽग्नेः, धुमाऽऽविला = धूमकलुषा, कीलपरम्परा इव = ज्वालाऽऽबलि: इव, चकास्ति = दीप्यते / / 76 / / ____अनुवादः- ( हे दमयन्ति ! ) अग्नि देवने कामदेव के ईन्धनरूप अपनी छातीपर शैवललतासे विचित्र कमलका नया पत्ता रख दिया जो कामरूप अग्निकी धूमसे मलिन ज्वालाकी पङ्क्तिके समान शोभित हो रहा है / / 76 / /