________________ 232 नैषधीयचरितं महाकाव्यम् टिप्पणी-दशाऽर्द्धबाणाः = दशानाम् अर्द्धानि, (10 त० ) / दशार्द्धानि बाणा यस्य सः (बहु०)। पुराऽरेः = पुरस्य (त्रिपुरस्य) अरिः, तस्य (ष० त० ) / नयनाऽऽलयेन-नयनम् आलयो यस्य, तेन ( बहु० ) / अदाहि = दह+ लुङ् ( कर्ममें )+ त। भवदक्षिवासी = भवत्या अक्षिणी (प० त० ), तयोर्वसतीति तच्छील:, भवदक्षि+वस + णिनिः ( उपपद० )+सुः / निर्दहन = निर् + दह+ लट् / शतृ )+सुः / वैरशुद्धेः = वरस्य शुद्धिः, तस्याः (ष० त० ) / अधमर्णः = अधमम् ऋण यस्य सः ( बहु० ) / जो जिसका जैसे अपकार करता है, वह अपकृत पुरुष भी वैसे ही उसका बदला लेता है यह भाव है। इसमें उपेन्द्रवज्रा छन्द है / / 73 // सोमाय कुप्यन्निव विप्रयुक्तः स सोममाचामति हयमान / नामाऽपि जागति हि यत्र शत्रोस्तेजस्विनस्तं कतमे सहन्ते ? // 7 // अन्धयः- (हे दमयन्ति ! ) विप्रयुक्तः स सोमाय कुप्यन् इव हूयमानम् सोमम आचामति / हि यत्र शत्रोः नाम अपि जागति तं तेजस्विनः कतमे सहन्ते ? ( न केऽपि ) ) // 74 // व्याख्या - ( हे दमयन्ति ! ) विप्रयुक्तः = त्वद्विरहयुक्तः, सः = अग्निः, सोमाय = चन्द्राय, कुप्यन इव = क्रुध्यन् इव, कामोद्दीपकत्वेन जिघांसनिवेति भाव: / हूयमानं = यज्ञे दीयमानं, सोमं = सोमलतारसम्, आचामति % पिबति / हि = यस्मात् कारणात्, यत्र = यस्मिन् जने, शत्रोः = वैरिणः, नामअपि = अभिधानम् अपि, जागति = प्रकाशते, तं शत्रुनामधारिणं, तेजस्विनः = तेजःसम्पन्नाः, पराऽवमानाऽसहिष्णव इति भाव:, कतमे = के, सहन्ते = मृष्यन्ति, न केऽपीति भावः / तेजस्विनां शत्रुनामाऽप्यसमिति भावः / / 7 / / अनुवादः -- ( हे दमयन्ति ! ) विरही अग्निदेव सोमपर मानों क्रोध करते हुए यजमानसे दिये गये सोमलताके रसको पान करते हैं, क्योंकि जिसमें शत्रुका नाम भी हो तो कौन तेजस्वी उसे सहते हैं ? ( कोई भी नहीं ) // 74 / / ____टिप्पणी - सोमाय = "क्रुधद्रुहेाऽसूयार्थानां यं प्रति कोपः' इस सूत्रसे संप्रदानसंज्ञा होकर चतुर्थी / कुप्यन् = कुप्यतीति, कुप + लट् ( शतृ ) + सुः / हूयमानं = हु+ लट् ( कर्ममें ) ( शानच )+ अम्। आचामति = आङ् + चम् + लट् + तिप्, "ष्ठिवुक्लमुचमां गिति" और "आङि चम इति वक्तव्यम्" इससे दीर्घ / तेजस्विनः = तेजस्+विनि+जस् / इस पद्यमें सामान्यसे विशेषका समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है // 74 / /