________________ 210 नैषधीयचरितं महाकाव्यम् तल्लेख्यम् ( क० धा० ), तस्य लक्ष्मीः , ताम् (ष० त०)। इस पद्यमें विषम अलङ्कार है // 70 // अग्न्याहिता नित्यमुपासते या देदीप्यमानां तनुमष्टमूर्तः / आशापतिस्ते दमयन्ति ! सोऽपि स्मरेण वासीभवितुं न्यदेशि // 7 // अन्वयः -- हे दमयन्ति ! अग्न्याहिता यां देदीप्यमानाम् अष्टमूर्तेः तनुं नित्यम् उपासते / आशापतिः सोऽपि स्मरेण ते दासीभवितुं न्यदेशि / / 71 // __व्याख्या-अथाऽग्निदेवस्याऽवस्थां वर्णयति - अग्न्याहिता इति / हे दमयन्ति ! = हे भैमि !, अग्न्याहिता: आहिताऽग्नयः / अग्निहोत्रिण इति भावः / यां, देदीप्यमानां = जाज्वल्यमानाम, अष्टमूर्तः = मूर्त्यष्टकधारिणः, महादेवस्येति भावः / तनुं = शरीरम, अग्निरूपामिति शेषः / नित्यं = सर्वदा, उपासते - सेवन्ते. आशापतिः = दिक्पतिः आग्नेयदिक्पतिरिति भावः / सोऽपि = अग्निरपि, स्मरेण = कामदेवेन, ते = तव, दासीभवितुं = सेवकीभवितुं, न्यदेशि= निर्दिष्टः, दमयन्त्या दासो भव इति आदिष्ट इति भावः // 71 // ___ अनुवादः हे दमयन्ति ! अग्निहोत्रीलोग जिस जाज्वल्यमान अष्टमूर्तिवाले महादेवके अग्निरूप शरीरकी नित्य उपासना करते हैं। दिक्पाल उन अग्निदेवको भी कामदेवने आपका दास होनेके लिए आज्ञा दी / / 71 // ___ टिप्पणी - अग्न्याहिता:-आहिता अग्नयो यस्ते ( बह०) / "वाहिताग्न्यादिषु" इस सूत्र से विकल्पसे निष्ठाका परनिगरात, एक पक्षमें "आहिताऽग्नयः" ऐसा रूप भी होता है / देदीप्यमानाम् = अतिशयेन दीप्यमाना, ताम् दीप् + यङ्+ लट् ( शानच् ) + टाप् + अम् / अष्टमूर्त: अष्टो मूर्तयो यस्य सः, तस्य ( बहु०)। "भूताऽर्कचन्द्रयज्वानो मूर्तयोऽष्टौ प्रकीर्तिताः / " इस उक्तिके अनुसार पञ्चमहाभूत-पृथिवी, जल, तेज, वायु और आकाश तथा सूर्य, चन्द्र और यजमान ये आठ महादेव की मूर्तियां हैं, उनमें अग्निदेव अन्यतम मूर्ति हैं। उपासते = उप+ आस् + लट् + झः / आशापतिः = आशायाः पतिः / ष० त० / / दासीभवितुम् = अदासो दासो यथा संपद्यते तथा भवितुम्, दास + वि+भू+तुमुन् / न्यदेशि - नि+दिश् + लुङ् ( कर्ममें )+त // 79 // स्वद्गोचरस्तं खलु पञ्चवाणः करोति सन्ताप्य तथा विनीतम् / स्वयं यथा स्वादिततप्तभ्यः परं न सन्तापयिता स भयः / / 72 // अन्वयः-(हे दमयन्ति ! ) पञ्चबाणः त्वद्गोचरः तं सन्ताप्य तथा विनीतं करोति खलु स यथा स्वयं स्वादितप्तभूयः परं न सन्तापयिंता / / 72 //