________________ अष्टमः सर्गः 223 सार्धम्" कहनेसे सहाऽर्थसम्बन्धकी उक्ति होनेसे सहोक्ति है। इस तरह दोनोंका सङ्कर है // 61 // प्राची याते विरहं बधत् ते तापाच्च रूपाच्च शशाङ्कशङ्की / पराऽपरानिदधाति भानो रुषारणं लोचनवन्दमिन्द्रः // 62 // अन्वयः-( हे भद्रे ! ) इन्द्रः ते विरहं दधत् प्राची प्रयाते भानौ तापात् रूपाच्च शशाऽङ्कशङ्की पराऽपराधः रुषा अरुणं लोचनवृन्दं निदधाति // 62 // ___व्याख्या इन्द्रः = मघवा, ते = तव, विरहं = वियोगं, दधत् = धारयन्, प्राची = पूर्व दिशं, प्रयाते = प्राप्ते, भानौ = सूर्ये अधिकरणे, तापात् = सन्तापात्, सन्तापजनकत्वादिति भावः। रूपाच्च = रक्तवर्तुलस्वरूपाच्च, शशाऽङ्कशङ्की = चन्द्रशङ्की, अयं चन्द्र इति भ्रान्त्येति भावः / पराऽपराधः = अन्याऽपराधः, चन्द्रदोषविरहिसन्तापनादिभिः हेतुभिरिति भावः / रुषा = क्रोधेन, हेतुना, अरुणं = रक्तवर्ण, लोचनवृन्दं = नयनसमूह, निधाति स्थापयति, कोधेन नेत्रसहस्रण पश्यतीति भावः // 62 // ___ अनुवादः- ( हे भद्रे ! ) इन्द्र आपके विरहको धारण करते हुए सूर्यके पूर्व * दिशामें जानेपर सन्ताप करनेसे और ( लाल और गोल ) रूपको धारण करनेसे भी 'ये चन्द्र हैं ऐसी शङ्का करते हुए दूसरे ( चन्द्र ) के अपराधोंसे क्रोधसे लाल नेत्रोंको धारण करते हैं / / 62 // टिप्पणी-दधत् = दधातीति, धा+लट् ( शतृ )+सु / शशाऽङ्कशङ्की = शशः अङ्कः यस्य सः ( बहु० ), शशाऽङ्कं शङ्कते तच्छील:, शशाङ्क + शकि+ णिनि ( उपपद०)+ सु। पराऽपराधः - परस्य अपराधाः, तैः (10 त०)। लोचनवृन्दं = लोचनानां वृन्दं, तत् (ष त०)। निदधाति = नि+धा+ लट् + तिप् / ताप और लाल तथा गोल रूपको धारण करनेसे उदयमें पूर्व दिशाको प्राप्त सूर्यको 'ये विरहीको सतानेवाले चन्द्र हैं" ऐसी भ्रान्तिसे इन्द्र क्रोधके कारण हजार नेत्रोंसे देखते हैं। यह भाव है। इस पद्यमें भ्रान्तिमान् अलङ्कार है / / 62 // त्रिनेत्रमात्रेण रुषा कृतं यत्तदेव योऽद्याऽपि न सम्वृणोति / न वेद रुष्टेऽद्य सहस्रनेत्रे गन्ता स कामः खलु कामवस्थाम् ? // 6 // अन्वयः-( हे भद्रे / ) त्रिनेत्रमात्रेण रुषा यत् कृतं, तत् एव यः अद्य अपि न सम्वृणोति / स कामः अद्य सहस्रनेत्रे रुष्टे काम अवस्थां गन्ता खलु ? न वेद // 63 //