________________ 224 नैषधीयचरितं महाकाव्यम् व्याख्या- त्रिनेत्रमात्रेण = नेत्रत्रययुक्तमात्रेण, हरेण, रुपा = क्रोधेन हेतुना, यत्, कृतं = विहितम्, अनङ्गत्वमिति भावः / तत् एव = अनङ्गत्वम् एव, अद्य अपि = अधुना अपि, न सम्वृणोति-न आच्छादयति, साङ्गत्वं कर्तुं न शक्नोतीति भावः / सः = तादृशः असमर्थः, कामः = मदनः, अद्य = अधुना, सहस्रनेत्रे सहस्रनयनयुक्ते, इन्द्र इति भावः, रुष्टे = क्रुद्ध सति, कां = कीदृशीम्, अवस्थां = दशां, गन्ता = गमिष्यति, न वेद = न जाने, खलु = निश्चयेन / वाक्याज्य: कर्म / त्रिनेत्रेण ( हरेण ) विनष्टाऽङ्ग कामः सहस्रनेत्रे ( इन्द्रे ) कुपिते सति कीदृशो भविष्यतीति भावः / कामदेवेन त्वय्यासक्तिवर्धनेन देवेन्द्रः साऽतिशय पीडित इति तात्पर्याऽर्थः / / 63 // ___अनुवादः-केवल तीन नेत्रोवाले (शिवजी ) ने क्रोधसे जो ( अनङ्गत्व) किया उसीका जो कामदेव अभीतक प्रतीकार नहीं कर सका है। वही कामदेव आज हजार नेत्रोंवाले ( इन्द्र ) के क्रुद्ध होने पर किस अवस्थाको प्राप्त होगा? मैं नहीं जानता है // 63 // ___ टिप्पणी-त्रिनेत्रमात्रेण = त्रीणि नेत्राणि यस्य सः ( बहु० ) / त्रिनेत्र एव त्रिनेत्रमात्र, तेन ( रूपक० ) / सम्वृणोति-सम् + वृञ् + लट् + तिप् / सहस्रनेत्रे सहस्रनेत्राणि यस्य, तस्मिन् ( बहु० ) / गन्ता = गम् + लुट् + तिप् / वेद + विद् + लट् + मिप् / “विदो लटो वा” इससे मिप् के स्थानमें णल् आदेश, एक पक्ष में "वेमि" ऐसा रूप भी // 63 // पिकस्य वाङ्मात्रकृताद् व्यलोकान्न स प्रभुनन्दति नन्दनेऽपि / बालस्य चुडाशशिनोऽपराधान्नाऽऽराधनं शीलति लिनोऽपि // 64 // अन्वयः-- ( हे भद्रे ! ) स प्रभुः पिकस्य वाङ्मात्रकृतात् व्यलीकात् नन्दमे अपि न नन्दति, ( किञ्च ) बालस्य चूडाशशिनः अपराधात शूलिनः अपि आराधनं न शीलति / ध्याख्या- सः = प्रसिद्ध, प्रभुः = अधिपः, स्वर्गाऽधिप इन्द्र इति भावः / पिकस्य = कोकिलस्य, वाङ्मात्रकृतात् = वचनमात्रविहितात्, न तु कामवत्कायकृतादिति भावः / व्यलोकात् = अप्रियात्, नन्दने अपि = स्वकीये उद्यानेऽपि, आनन्दकरेऽपि, न नन्दति = आनन्दं न प्राप्नोति, किमुत अन्यत्रेति भावः / ( किञ्च ) बालस्य = कृशस्य, चूडाशशिनः शिरश्चन्द्रस्य, अपराधात आगसः, सन्तापरूपात्, किमुत पूर्णचन्द्रस्येति भावः / शूलिनः अपि = शङ्करस्य अपि, आराधनम् = उपासनां, न शीलति = न आचरति / पिकरवश्रवणात