________________ अष्टमः सर्गः 219 कल्याणि ! कल्यानि तवाङ्गकानि कच्चित्तमा ? चित्तमनाविलं ते?। अलं विलम्बेन, गिरं मदीयामाकर्णयाऽकणंतटाऽयताक्षि ! // 57 // अन्वयः-हे कल्याणि ! तव अङ्गकानि कल्यानि कच्चित्तमाम् ? ते चित्तम् अनाविलं कच्चित्तमाम् ? हे आकर्णतटाऽऽयताक्षि ! विलम्बेन अलं, मदीयां गिरम् आकर्णय // 57 // व्याख्या हे कल्याणि = हे भद्रे !, तव = भवत्याः, अङ्गकानि = कोमलानि अङ्गानि, कल्यानि = नीरोगाणि, कच्चित्तमाम् = किं ? सन्तीति शेषः / ते - तव, चित्तं = मनः, अनाविलम् = अकलुषं, कच्चित्तमा = किम्, अस्तीति शेषः / हे आकर्णतटाऽयताक्षि = हे आश्रोत्रदीर्घनयने, विलम्बेन = कालाऽतिपा. तेन, अलं = पर्याप्तं, विलम्वेन साध्यं नाऽस्तीति भावः / मदीयां - मामकीनां, गिरं = वाणीम्, आकर्णय = शृणु // 57 // ___ अनुवादः -हे भद्रे ! आपके कोमल अङ्ग नीरोग हैं क्या ? आपका चित्त निर्मल (प्रसन्न) है क्या? हे कानतक दीर्घ नेत्रोंवाली ! विलम्ब मत कीजिए, मेरी वाणीको सुन लीजिए / / 57 // टिप्पणी-कल्यानि = "वार्तो निरामयः कल्य ऊल्लाघो निर्गतो गदात् / " इत्यमरः / कच्चित्तमाम = "कच्चित्" यह प्रश्नार्थक अव्यय है, "कच्चित्का. मप्रवेदने" इत्यमरः। कच्चित् शब्दसे "अतिशायने तमबिष्ठनौ" इससे तमप् प्रत्यय होकर तदन्तसे "किमेत्तिङव्ययपादाम्बद्रव्यप्रकर्षे" इस सूत्रसे आमु प्रत्यय / अनाविलं = न आविलम् (नञ्०), "कलुषोऽनच्छ आविलः” इत्यमरः / आकर्णतटाऽऽयताक्षि = कर्णयोस्तटे ( ष० त० ), कर्णतटाभ्याम् आ आकर्णतटम् ( मर्यादामें अव्ययीभाव ) / आकर्णतटम् आयते ( सुप्सुपासमास ) / आकर्णतटा. यते अक्षिणी यस्याः सा आकर्णतटायताक्षी, तत्सम्बद्धौ (बहु० ) / "बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात् षच्" इससे समासाऽन्त षच् प्रत्यय और स्त्रीत्वविवक्षामें "षिद्गौरादिभ्यश्च" इससे ङीष् / मदीया = मम इयं मदीया ताम्, अस्मद् + छ ( ईय ) + टाप् + अम् / आकर्णय = आङ् +कर्ण + णिच् + लोट् सिप् // 57 // कौमारमारभ्य गणा गुणानां हरन्ति ते दिक्षु धृताऽऽधिपत्यान् / सुराऽधिराजं सलिलाऽधिपं च हुताऽशनं चाऽर्यमनन्दनं च // 58 / / अन्वयः - ( हे भद्रे ! ) कौमारम् आरभ्य ते गुणानां गणाः दिक्षु धृताऽऽधिपत्यान् सुराऽधिराज, सलिलाऽधिपं, हुताशनम् अर्थमनन्दनं च हरन्ति / / 58 / /