________________ 218 नैषधीयचरित महाकाव्यम् प्रत्यय / “सन्देशवाग्वाचिकं स्यात्" इत्यमरः। स्व:प्रभूणां वाचिकानि, तानि (ष० त० ) / वहन्तं = वव् + लट् ( शतृ ) + अम् / हरित्पतीनां = हरितां पतयः, तेषाम् (10 त०)। "दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः / " इत्यमरः / त्वदीयं = तव अयं, तम्. युष्मद् + छ ( ईय)+ अम् / प्रतीहि = प्रति+ इण् + लोट् सिप / इस कथनसे "मैं आपके लिए देवताओंसे भेजा गया दूत हूँ यह सूचित होता है। इससे "आप कहाँसे आये हैं और किसके अतिथि हैं ?" इन प्रश्नोंके भी उत्तर हुए / इस पद्यमें उपमा अलङ्कार है // 55 // विरम्यतां भूतवती सपर्या, निविश्यतामासनमुज्झितं किम् ? / या दूतता नः फलिना विषेया सेवाऽऽतिथेयो पृथुरुद्धवित्री // 56 / / अन्वयः- ( हे राजकुमारि ! ) सपर्या भूतवती, विरम्यताम् / निविश्यताम् / किम् आसनम् उज्झितम् ? फलिना विधेया नः या दूतता सा एव पृथुः आतिथेयी उद्भवित्री // 56 / / व्याख्या-सपर्या = पूजा, अतिथिसत्क्रियेति भावः, भूतवती = भूता, संपन्नेति भावः / विरम्यतां = विरामः क्रियताम्, प्रयत्नान्तरं नो विधेयमिति भावः / निविश्यताम् = उपविश्यताम् / किं = किमर्थम्, आसनम् = उपवेशनस्थानम्, उज्जितं = त्यक्तम् / फलिना = सफला, विधेया = कर्तव्या, नः = अस्माकं, या, दूतता = दूत्यं, सा एव = दूतता एव, पृथः = महती, आतिथेयी = अतिथिपूजा, उद्भवित्री = भाविनी। मद्त्यसफलीकरणेनैव महत्यतिथिपूजा भविष्यतीत्यतोऽलमुपचारान्तरेणेति भावः / / 56 // ___ अनुवादः-(हे राजकुमारि ! ) अतिथिसत्कार हो गया। सत्कारविशेष छोड़िए / बैठिए / आपने क्यों आसन छोड़ दिया ? सफल करने योग्य हमारी जो दुतता है वही महान् अतिथिसत्कार होगा // 56 / / टिप्पणी-भूतवती-भू+ क्तवतु+ ङीप् + सु। विरम्यताम् वि + रम् + लोट् (भावमें ) + त। निविश्यतां = नि+विश् + लोट् ( भावमें )+त / फलिना = फलम् अस्ति यस्याः सा, फल शब्दसे 'फलबर्हाभ्यामिनच" इस वार्तिकसे इनच् + टाप् + सु / आतिथेयी = अतिथि + ढक् ( एय ) + ङीप् + सु। उद्भवित्री = उद्+भू+ तृच् + डीप+सु / हे राजकुमारि ! आप मेरे दूतकार्यको सफल करें यही वड़ा अतिथिसत्कार होगा यह भाव है // 56 //