________________ 213 अष्टमः सर्गः - टिप्पणी-रूपसृष्टं = रूपेण सृष्टं, तत् (तृ० त०)। प्रसादीकुरुषे = अप्रसादः प्रसादो यथा संपद्यते तथा कुरुषे (प्रसाद+वि + + लट् +थास्) / आद्रियेताम् = आङ् + दृङ् + लोट् + आताम् / आप अमृततुल्य अपने वचनसे मुझे कृतार्थ करें यह भाव है // 49 // इत्थं मधूत्थं रसमुगिरन्ती तदोष्ठबन्धूकधनुविसृष्टा / कर्णात् प्रसूनाऽऽशुगपञ्चबाणी वाणीमिषेणाऽस्य मनो विवेश // 50 / / अन्वयः -इत्थं मधूत्यं रसम् उद्गिरन्ती तदोष्ठबन्धूकधनुविसृष्टा प्रसूनाऽऽशुगपञ्चबाणी वाणीमिषेण अस्य कर्णात् (अस्य) मनो विवेश // 50 // ___ व्याख्या -इत्थं = अनेन प्रकारेण, मधूत्यं = क्षौद्रोत्पन्नं, रसं = स्वादम्, उद्गिरन्ती = स्रवन्ती, तदोष्ठबन्धूकधनुर्विसृष्टा = दमयन्त्यधरबन्धुजीवकपुष्पकार्मुकमुक्ता, प्रसूनाशुगपञ्चबाणी = कामपञ्चशरी, वाणीमिषेण = वाग्व्याजेन, अस्य = नलस्य, कर्णात् = कर्णं प्रविश्य, अस्य = नलस्य, मनः = चित्तं, विवेश = प्रविष्टा, कर्णद्वारेति भावः // 50 // अनुवादः- इस प्रकारसे मधु ( शहद ) के रसको निकालते हुए दमयन्तीके ओष्ठरूप दुपहरियाके फूलरूप धनुसे छोड़े गये काम देवके पांचों बाणोंने दमयन्तीके वचनके बहानेसे नलके कानोंमें घुसकर मनमें प्रवेश किया // 50 // ___ टिप्पणो-मधूत्यं = मधुन उत्तिष्ठतीति, तम् / ( मधु + उद्+स्या + क ( उपपद० )+ अम् ) / उगिरन्ती = उद् + गृ + लट् ( शतृ )+ ङीप् + सु / तदोष्ठबन्धूकधनुर्विसृष्टा = तस्या ओष्ठः (10 त० ), स एव बन्धूकं (रूपक०) "बन्धुकं बन्धुजीवकम्" इत्यमरः / तदोष्ठबन्धूकम् एव धनुः (रूपक०), तेन विसृष्टा (तृ० त०)। प्रसूनाऽऽशुगपञ्चबाणी = प्रसूनानि अशुगा यस्य सः ( बह०)। पञ्चानां बाणानां समाहारः पञ्चबाणी ( द्विगुः ) / प्रसूनाsशुगस्य पञ्चबाणी ( 10 त० ) / वाणीभिषेण = वाण्या भिष, तेन (ष० त०) / कर्णात् ल्यप्के लोपमें पञ्चमी। विवेश विश+लिट् + तिप् (णल्) // 50 // अमज्जदामज्जमसो सुधासु प्रियं प्रियाया वदनान्निपोय / विषन्मुखेऽपि स्वदते स्तुतिर्या तन्मिष्टता नेष्टमुखे त्वमेया / / 51 // अन्धयः-असौ प्रियाया वदनात् प्रियं निपीय सुधासु आमज्जम् अमज्जत् / द्विषन्मुखे अपि या स्तुतिः स्वदते, इष्टमुखे तु तन्मिष्टता अमेया न ? / / 51 // व्याख्या-असो = नलः, प्रियायाः = वल्लभायाः, दमयन्त्याः / वदनात् - मुखात्, प्रियं = प्रियवाक्यं, स्वप्रशंसारूपमिति भावः / निपीय = नितरां