________________ 212 नैषधीयचरितं महाकाव्यम् अवलम्ब्य = आरुह्य, किं किं ब्रवीति = किं किं कथयति / किं किं तर्कयतीति भावः / अतः न जाने = नो निश्चिनोमि / अथ वा = यद्वा, अलीकसंभावनया = मिथ्यावितर्केण, अलं=पर्याप्तं, तेन साध्यं नास्तीति भाव: / किन्तु कस्याऽपि= अज्ञातनामधेयस्य, धन्यस्य-पुण्यवतः, गृहाऽतिथिः = गेहाऽऽगन्तुकः, त्वम् असीति शेषः / संशयाऽपनोदनेन मामनुकम्पस्वेति भावः // 48 // ___ अनुवाद:-( हे महोदय ! ) यह मेरी बुद्धि शङ्कारूप झूलाका अवलम्बन कर क्या-क्या कहती है ? इस कारण मैं नहीं जानती हूँ अथ वा मिथ्या तर्क अरनेसे क्या? आप किसी भाग्यशाली पुरुषके घरमें अतिथि होनेके लिए. आये हैं // 48 // - टिप्पणी-सन्देहदोलां = सन्देह एव दोला, ताम् ( रूपक० ) / आप मेरे उद्देश्य से आये हैं वा दूसरेके उद्देश्यसे ऐसी सन्देहदोलाका अवलम्बन कर यह अभिप्राय है। ब्रवीति = ब्रू + लट् तिप् / अलीकसंभावनया = अलीकस्य संभावना, तया ( ष० त० ), धन्यस्य = धनं लब्धा, तस्य, "अनगणं लब्धा" इस सूत्र से यत् प्रत्यय / इस पद्यमें रूपक अलङ्कार है // 48 // . प्राप्तव तावत् तवरूपसृष्टं निपीय दृष्टिर्जनुषः फलं मे / अपि अती नाऽमृतमाद्रियेतां तयोः प्रसादीकुरुषे गिरं चेत् ? // 49 // . अन्वयः-( हे महोदय ! ) तावत् मे दृष्टिः तव रूपसृष्टम् अमृतं निपीय जनुषः फलं प्राप्ता एव / तयोः गिरः प्रसादीकुरुषे चेत् श्रुती अपि अमृतं न आद्रियेताम् ? // 49 // व्याख्या -- तावत् = प्रथम, मे = मम, दृष्टि: = नेत्रं, तव = भवतः, रूपसृष्टं = सौन्दर्योत्पादितम्, अमृतं = पीयूष, निपीय = नितरां पीत्वा, सहर्ष विलोक्येति भावः / जनुषः = जन्मनः, फलं = प्रयोजनं, प्राप्त एव = आसादितवती एव / तयोः = मम श्रुत्योः, गिरं = वचनं, प्रसादीकुरुषे चेत् = अनुग्रहीकरोषि यदि, श्रुती अपि = मम कणों अपि, अमृतं = पीयूषं, न आद्रियेतां = न संमन्येताम्, भवान् भापणेन अनुगृह्णात्विति भावः // 49 // ____ अनुवाद:-( हे महोदय ! ) मेरे नेत्रोंने आपके सौन्दर्य से उत्पादित अमृतका पान कर जन्मके फलको प्राप्त कर लिया है, वचन सुनानेका अनुग्रह करेंगे तो मेरे कान भी अमृतका आदर नहीं करेंगे ? // 49 //