________________ अष्टमः सर्गः 209 देवेषु, कोऽपि = कश्चित्, असि यदि = विद्यसे चेत्, तर्हि दिवा = स्वर्गण, जितं = सर्वोत्कर्षेण स्थितम् / त्वया = भवता, औरगं = सर्प, कुलं = वंशः, अलङ्कृतं = भूषितं, चेत् = यदि, स्वजनुषेति भावः, तहि अधोऽपि = सर्वाऽध:स्थितोऽपि, नागलोकः = पातालं, कस्य = लोकस्य, उपरि = ऊर्वभागे, न = नो वर्तते, सर्वस्याऽपि लोकस्योपरि वर्तत इति भावः // 44 // __ अनुवादः-( हे महोदय ! ) आप मनुष्य हैं तो पृथ्वी कृतार्थ है। आप देवताओंमें कोई हैं तो स्वर्गने जीत लिया। आपने सर्पवंशको अलंकृत किया हो तो नीचे रहते हुए भी पाताल किस लोकके ऊपर नहीं है / / 44 // टिप्पणी-मानवः = मनोरपत्यं पुमान्, मनु + अण् + सु / कृतार्था = कृत: अर्थो यस्याः सा (नहु० ) / दिवा = "सुरलोको द्योदिवौ द्वे" इत्यमरः / जितं = 'जि' धातुसे "नपुंसके भावे क्तः” इस सूत्रसे भावमें क्त प्रत्यय / औरगम् = उरगस्य इदम्, उरग+अण+सु / नागलोकः = नागानां लोक: (ष० त०)। आप मनुष्य, देवता और सर्प इनमेंसे कौन हैं ? यह भाव है // 44 // सेयं न पत्तेऽनुपपत्तिमुच्चमच्चित्तवृत्तिस्त्वयि चिन्त्यमाने / ममो स भद्रं चुलुके समुद्रस्त्वयाऽत्तगाम्भीर्यमहत्वमुद्रः / 45 // अन्वयः-(हे महोदय ! ) त्वयि चिन्त्यमाने सा इयं मच्चित्तवत्तिः उच्चैः अनुपपत्ति न धत्ते। स समुद्रः त्वया आत्तगाम्भीर्यमहत्त्वमुद्रः चुलुके ममौ भद्रम् // 45 // ___ व्याख्या-त्वयि = भवति, चिन्त्यमाने = विचार्यमाणे, स्वरूपतो गुणतश्चेति शेषः / सा, इयन् = एषा, मच्चित्तवृत्तिः = मन्मनोवृत्तिः, उच्चः = महतीम्, अनुपपत्तिम् = असंभाव्यतां, न धत्ते = नो धारयति, अगस्त्येन चुलुकेन समुद्रः पीत इति वृत्तान्तस्याऽसंभाव्यतां न करोतीति भावः / तत्र हेतुमुत्प्रेक्षते-सः = प्रसिद्धः, समुद्रः अर्णवः, त्वया = भवता, आत्तगाम्भीर्यमहत्त्वमुद्रः = गृहीतगभीरतावृहत्ताचिह्नः सन्, चुलुके = मुनिमुष्टिगर्भ, ममौ = माति स्म / भद्रं = युक्तम् / नो चेत्कथं तथा महतो गभीरस्य समुद्रस्य मुनिचुलुकपरिमितता इति भावः // 45 // अनुवादः-हे महोदय ! आपका विचार करने पर मेरी मनोवृत्ति ( अगस्त्य ने चुल्लूमें समुद्र. पी लिया ) यह बात असंभव है ऐसा नहीं मानती है / आपसे गम्भीरता और महत्तारूप चिह्नके ग्रहण किये जानेसे वह समुद्र अगस्त्यके चुल्लू में समाया। यह ठीक है / / 45 // 14 न० अ.