________________ अष्टमः सर्गः 205 मृगस्य नेत्रद्वितस्यं त्वदास्ये विषो विधित्वाऽनुमितस्य दृश्यम् / तस्यैव च स्वत्कचपाशवेषः पुच्छे स्फरच्चामरगुच्छ एषः // 40 // अन्वयः-(हे महोदय ! ) त्वदास्ये विधौ दृश्यं नेत्रद्वितयं विधुत्वाऽनुमितस्य मृगस्य एव / ( किं च ) एष त्वत्कचपाशवेषः तस्य एव पुच्छे स्फुरच्चामरगुच्छः // 40 // . व्याख्या--( हे महोदय ! ) त्वदास्ये = भवन्मुखरूपे, विधौ = चन्द्रे, दृश्यं = दर्शनविषयीभूतं, नेत्रद्वितयं - नयनयुगलं, विधुत्वाऽनुमितस्य = विधुत्वेन ( चन्द्रत्वेन ) अनुमितस्य ( अनुमितिविषयभूतस्य ), मृगस्य एव = हरिणस्य एव, चन्द्रस्य मृगाऽविनाभावादिति भावः / (किञ्च ) एषः = समीपतरवर्ती, त्वत्कचपाशवेषः = भवत्केशपाशसन्निवेशः, तस्य एव = मृगस्य एव, पुच्छेलागूले, स्फुरच्चामरगुच्छः = शोभमानचामरस्तबकः, अस्तीति शेषः / 40 / / ____ अनुवाद:-आपके मुखरूप चन्द्रमें दर्शनीय दो नेत्र चन्द्रकी स्थितिसे अनुमित मृगके ही हैं / यह आपके केशकलापका वेषरूप उसी मृगके पुच्छमें शोभित चमरका गुच्छा है // 40 // __ टिप्पणी-त्वदास्ये = तव आस्यं, तस्मिन् (ष० त० ) / नेत्रद्वितयं = नेत्रयोद्वितयम् (प. त०)। विधुत्वाऽनुमितस्य = विधोर्भावः, विधु+त्व+सु / विधुत्वेन अनुमितः, तस्य ( तृ० त०), यत्र यत्र विधुः, तत्र तत्र मृगवत्त्वम् ऐसी व्याप्तिसे अनुमितिका विषयीभूत मृग यह भाव है / त्वत्कचपाशवेष: - कचानां पाशः ( ष० त० ), तव कचपाशः (10 त० ), त्वत्कचपाशः वेषः यस्य सः ( बहु०)। स्फुरच्चामरगुच्छः = चामरस्य गुच्छः (10 त०), स्फुरंश्चाऽसौ चामरगुच्छ: (क० धा० ) / आपके नेत्र मृगनेत्रोंके समान हैं और आपका केशपाश शोभित चमरगुच्छके समान सुन्दर है यह भाव है। इस पद्यमें रूपक और उत्प्रेक्षाकी निरपेक्षतया स्थिति होनेसे संसृष्टि अलङ्कार है॥ 40 / / आस्तामनक्षीकरणाद्धवेन दृश्य: स्मरो नेति पुराणवाणी। तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वावः // 41 / / अन्वयः-( हे महोदय ! ) स्मरो भवेन अनङ्गीकरणात् दृश्यो न इति पुराणवाणी आस्ताम्, तव एव देहं श्रितया श्रिया न दृश्यः इति नवो वादस्तु वस्तु प्रतिभाति // 41 //