________________ 206 नैषधीयचरितं महाकाव्यम् व्याख्या-(हे महोदय ! ) स्मरः = कामः, भवेन = ईश्वरेण, अनङ्गीकरणात् = अशरीरीकरणात् हेतोः, दृश्यः = नयनगोचरः, न = न अस्ति, इति = एतादृशी, पुराणवाणी = पुरातनवादः अथ वा पुराणवादः, तावत् आस्तां = तिष्ठतु, तव एव = भवत एव, देहं = शरीरं, श्रितया = आश्रितया, श्रिया = सौन्दर्येण हेतुना, न दृश्यः = नो दर्शनीयः, नयनाऽगोचरः, इति = अयं, नवः = नूतनः, वादस्तु = वचनं तु, वस्तु = परमाऽर्थः, प्रतिभाति = प्रतिशोभते / हरनयनाऽनलेन दग्धत्वात्स्मरोऽनङ्ग इति ऐतिह्यमात्रं, त्वच्छरीरसौन्दर्येण पराजितत्वाल्लज्जयाऽदृश्यतां गत इदं तु प्रत्यक्षमिति भावः / / 41 / / अनुवादः-(हे महोदय ! ) कामदेव महादेवसे भस्मीभूत होनेसे दर्शनयोग्य नहीं है यह पुराना वचन वा पुराणकी वाणी रहे, आपके ही शरीरमें रहे हुए सौन्दर्य के कारण लज्जासे अदृश्य हो गया है यह नवीन वचन तो वास्तविक प्रतीत होता है // 41 / / टिप्पणी--अनङ्गीकरणात् = अविद्यमानानि अङ्गानि यस्य सः अनङ्गः ( नब्बहु० ) / अननङ्गः अनङ्ग यथा सम्पद्यते तथा करणं, तस्मात्, अनङ्ग + वि+कृ + ल्युट् + ङसि / पुराणवाणी-पुरा भवा पुराणी, पुरा शब्दसे “सायंचिरंप्राह्वेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट च" इससे ट्यु वा ट्युल् प्रत्यय, “पूर्वकालक०" इत्यादि सूत्र में निपातनसे तुटका अभाव। टित् होनेसे "टिड्ढाण" इत्यादि सूत्रसे ङीप् / पुराणी चाऽसौ वाणी ( क० धा० ) / अथ वा पुराणस्य वाणी (ष० त०), आप कामदेवसे भी अधिक सुन्दर हैं यह भाव है। इस पद्य में कामदेव के अदृश्यत्वमें पराजयसे उत्पन्न लज्जाकी हेतुता होनेसे हेतृत्प्रेक्षा है // 41 // त्वया जगत्युच्चितकान्तिसारे यदिन्दुनाऽशीलि शिलोञ्छवृत्तिः।। आरोपि तन्माणवकाऽपि मोलो स यज्वराज्येऽपि महेश्वरेण // 42 // अन्वयः-( हे महोदय ! ) त्वया जगति उच्चितकान्तिसार ( सति ) यत इन्दुना शिलोञ्छवृत्तिः अशीलि, तत् माणवकः अपि स महेश्वरेण मौलो यज्व. राज्ये अपि आरोपि // 42 // व्याख्या--(हे महोदय ! ) त्वया = भवता, जगति = लोके, उच्चितकान्तिसारे गृहीतसौन्दर्यश्रेष्ठभागे सति, यत् = यस्मात्, इन्दुना = चन्द्रमसा, शिलोञ्छवृत्तिः धान्यकणादान-कणिकांऽशाऽर्जनरूपजीविका, अशीलि-शीलिता, तत् = तस्मात्कारणात्, माणवकः अपि = बाल: अपि, कलारूपोऽपीति भावः /