________________ 192 नैषधीयचरितं महाकाव्यम् टिप्पणी-परित्यज्य = परि + त्यज् + क्त्वा ( ल्यप् ) / अत्यसजि=अति+ सृज् + लुङ ( कर्ममें )+त / अनर्हम् = न अहम् ( न०)। प्रयातुं = प्र+ या+तुमुन् / क्षणम् = अत्यन्तसंयोगमें द्वितीया। अलङ्क्रियेत = अलं++ लिङ् ( कर्ममें )+त // 23 // निवेखता हन्त ! समापयन्ती शिरीषकोषम्रदिमाऽभिमानम् / पदो कियदूमिमो प्रयासे निधित्सते तुच्छश्यं मनस्ते / ' 24 // अन्वयः-शिरीषकोषम्रदिमाऽभिमानं समापयन्तौ ईमौ पदौ तुच्छदयं ते मनः कियद्रं प्रयासे निधित्सते ? निवेद्यताम् / हन्त ! // 24 // ___ व्याख्या-( हे पुरुषश्रेष्ठ ! ) शिरीषकोषम्रदिमाऽभिमान = शिरीषपुष्पसमूहकोमलतागवं, समापयन्तौ = निवर्तयन्तौ, इमी = सन्निकृष्टस्थौ, पदों : चरणौ, तुच्छदयं = निष्कृपं, ते = तव, मनः = चितं, कियदरं - किंपरिमाणविप्रकृष्टं, प्रयासे = आयासे, * निधित्सते = निधातुमिच्छति, निवेद्यतां = ज्ञाप्यतां, हन्त = अनुकम्पायाम् // 24 // अनुवादः ( हे पुरुषश्रेष्ठ ! ) शिरीष पुष्पके कोषकी कोमलताके गर्वको हटानेवाले आपके इन चरणोंको दयासे शून्य आपका मन कितनी दूरतक प्रयासमें रखना चाहता है, बतलाइए / हाय ! // 24 // ___टिप्पणी-शिरीषकोषम्रदिमाऽभिमानं = शिरीषस्य कोष: (10 त.) मृदोर्भावः म्रदिमा, मृदु + इमनिच् + सु। “र ऋतोहलादेर्लघोः / " इससे 'ऋ' के स्थानमें 'र' भाव / शिरीषकोषस्य म्रदिमा ( ष० त० ), तस्य अभिमानक, तम् (ष० त०)। समापयन्तौ = सम् +आप+ णिच् + लट् ( शतृ )+औ। पदौ = "पदध्रिश्चरणोऽस्त्रियाम् / " इत्यमरः / तुच्छदयं = तुच्छा दया यस्य तत् ( बहु० ), "शून्यम् तु वशिकं तुच्छरिक्त के" इत्यमरः / निधित्सते = निधातुम् इच्छति, नि + धा-- सन् + लट् + त, “सनि मीमाधुरभलभशकपतपदामच ईस्" इससे अच्के स्थानमें ईस् आदेश और “अत्र लोपोऽभ्यासस्य" इस सूत्रसे अभ्यासका लोप / निवेद्यताम् = नि+-विद् + णिच् + लोट् ( कर्ममें )+त / यहाँपर वाक्याऽर्थ कर्म है / उपेन्द्रवज्रा छन्द है // 24 // अनायि देशः कतमस्त्वयाऽद्य वसन्तमुक्तस्य दशां वनस्य / . त्वदाप्तसङ्केततया कृतार्था श्रव्याऽपि नाऽनेन जनेन संज्ञा // 2 // अन्वयः-अद्य त्वया कतमो देशो वसन्तमुक्तस्य वनस्य दशाम् अनायि, / किञ्च ) त्वदाप्तसङ्केततया कृतार्था संज्ञा अनेन जनेन श्रव्या अपि न ? // 25 //