________________ अष्टमः सर्गः व्याख्या-अद्य = अस्मिन् दिने, त्वया = भवता, कतमः = किंसंज्ञकः, देशः = जनपदः, वसन्तमुक्तस्य = सुरभित्यक्तस्य, वनस्य = विपिनस्य, दशाम् = अवस्थाम्, अनायि-नीतः, रिक्तीकृत इति भावः / किञ्च त्वदाप्तसङ्केततया = भवल्लब्धसम्बन्धत्वेन, कृतार्था = सफला, संज्ञा = नाम, अनेन = सन्निकृष्टस्थेन, जनेन = मल्लक्षणेन, श्रव्या अपि न = श्रोतुम् अर्हा अपि न ? इति काकुः / भवान् कुत आयातः ? किं नामधेयो भवानित्यपि श्रोतुमिच्छामीति भावः // 25 // ___ अनुवादः-आज आपने किस देशको वसन्त ऋतुसे छोड़े गये वनकी अवस्थामें पहुँचाया ? आपमें सङ्केत प्राप्त करने से सफल आपका नाम मुझसे सूननेके लिए योग्य भी नहीं है क्या ? // 25 // टिप्पणी-कतमः = किम् +डतमच+सु / वसन्तमुक्तस्य = वसन्तेन मुक्तः, तस्य ( तृ० त० ) / अनायि = नी+लुङ् (कर्ममें )+त / त्वदाप्त. सङ्केततया = आप्तः सङ्केतो यया सा ( बहु० ) / त्वयि आप्तसङ्केता ( स० त० ), तस्या भावः तत्ताः, तया, त्वदाप्तसङ्केत+तल् + टाप् +टा / कृतार्था = कृतः अर्थः यस्याः सा ( बहु० ) / श्रव्या = श्रोतुम् अर्हा, श्रु+यत् +टाप् + सु। आप कहाँसे आये हैं ? और आपका क्या नाम है ? यह मैं सुनना चाहती हूँ यह भाव है // 25 // तीर्णः किम!निधिरेव नेष सुरक्षितेऽभूविह यत्प्रवेशः / . .फलं किमेतस्य तु साहसस्य ? न तावदद्याऽपि विनिश्चिनोमि // 26 // ___ अन्वयः-सुरक्षिते इह यत् प्रवेश: अभूत्, एषः अर्णोनिधिः एव तीर्णो न किम् ? तु एतस्य साहसस्य फलं किम् ? अद्य अपि तावत् न विनिश्चिनोमि // 26 // व्याख्या-(हे पुरुषश्रेष्ठ ! ) सुरक्षिते = सम्यग्गुप्ते, अत्यन्तदुष्प्रवेश इति भावः / इह = अत्र, अन्तःपुरे, यत्, प्रवेशः = प्रवेशनम्, अभूत् = जातः, एषः= प्रवेशः, अर्णोनिधिः एव = अर्णव एव, तीर्णो न किं = तरणकर्मीकृतो न किम् ? बाहुभ्यामर्णवतरणतुल्यं न किमिति भावः / तु = किन्तु, एतस्थ% अस्य, साहसस्य = बलात्कारकृतकार्यस्य, अन्तःपुरप्रवेशरूपस्येति शेषः / फलं किं = प्रयोजनं किम् ? अद्य अपि = इदानीम् अपि, तावत् न विनिश्चिनोमि = निश्चेनुं न शक्नोमीति भावः // 26 // 13 नै० अ० .