________________ अष्टमः सर्गः व्याख्या-पदोपहारे = चरणोपायने, चरणक्षालनार्थ जलाऽनयन इति भावः / त्वरया = वेगेन, अपाम् = उदकानाम्, अनुपन म्रता अपि = असन्निहि, तत्वम् अपि, अपराधः = अपचारः, संभाव्यते = अपराधत्वेन गृह्यत इति भावः / तत् = तस्मात्कारणात्, अञ्जलिसजनेन = अलिबन्धेन, स्वसंभृतिप्राञ्जलता अपि % आत्मसंभाराऽऽर्जवम् अपि, तावत् = आदौ, कतुं - विधातुम्, अर्हा = योग्या, अन्यथा प्रत्यवायादिति भावः // 22 // अनुवाद:-चरणोंके प्रक्षालनके लिए वेगसे जलको समीप न पहुंचाना भी अपराध समझा जाता है, इस कारणसे हाथोंको जोड़नेसे अपने सन्निधानसे सर. लता भी पहले दिखानी चाहिए // 22 // टिप्पणी-पदोपहारे = पदयोः उपहारः, तस्मिन् ( ष० त०)। अनुपनम्रता = न उपनम्रता ( नञ्० ) / अञ्जलिसञ्जनेन = अञ्जले: सञ्जनम्, तेन (10 त०)। स्वसंभृतिप्राञ्जलता = स्वस्य संभृति: (10 त० ) / प्राञ्जलस्य भावः प्राञ्जलता, प्राञ्जल+तल +टाप् + सु / स्वसंभृत्या प्राञ्जलता (तृ० त०)। आतिथ्य करनेमें सामर्थ्य न हो तो नम्रता दिखानेसे भी अतिथिके चित्तको प्रसन्न करना चाहिए, नहीं तो प्रत्यवाय होगा यह अभिप्राय है // 22 // पुरा परित्यज्य मयाऽत्यसजि स्वमासनं तस्किमिति क्षणं न / अनहमप्येतदलङक्रियेत. प्रयातुमोहा यदि चान्यतोऽपि // 23 // अन्वयः-- मया स्वम् आसनं पुरा (एव) परित्यज्य अत्यसजि, एतत अनहम् अपि अन्यतः प्रयातुम् ईहा वा यदि किमिति क्षणं न अलक्रियेत / :23 // ___ व्याख्या-मया, स्वम् = आत्मीयम्, आसनम् = उपवेशनस्थानं, पुरा = पूर्व, त्वद्दशनक्षण एवेति भावः, परित्यज्य = त्वक्त्वा तत उत्थायेति भावः / अत्यसजि = दत्तम्, एतत् = आसनम्, अनहम् अपि = अयोग्यम् अपि, अन्यत:अन्यस्मिन् स्थाने / प्रयातु = गन्तुम्, ईहा वा = इच्छा वा, यदि = चेत्, तथाऽपि किमिति = किमर्थ, क्षणम् = अल्पकालम् अपि, न अलक्रियेत = न संभूध्येत, भक्तजनाऽनुकम्पया क्षणमात्रमधि अत्रोपवेष्टव्यमिति भावः // 23 // अनुवादः --- मैने अपने आसनको पहले ही छोड़ दिया है, इसके अयोग्य होनेपर भी और अन्यत्र जाने की इच्छा हो तो भी आप क्यों कुछ समयतक भी इसे अलङ्कृत नहीं करते हैं ? / / 23 !!