________________ 190 नैषधीयचरितं महाकाव्यम् तेषाम् आली ( 10 त० ), रसानां धारा (10 त० ) / प्रियाऽक्षराऽऽल्यारसधारा, तया ( तृ० त० ) / वैधी = विधेः इयम्, विधि + अण् + ङीप् + सु / मधुपर्कतृप्तिः = मधुपर्केण तृप्तिः (तृ० त०)। विधेया - विधातुं योग्या वि+धा + यत् + टाप् +सु // 20 // स्वाऽऽस्माऽपि शोलेन तृणं विधेयं, देया बिहायाऽऽसनभूनिजाऽपि / आनन्दवापरपि कल्प्यमम्भः, पृच्छा विधेया मधुभिर्वचोभिः // 21 // अन्वयः- ( आचारविदा ) शीलेन स्वाऽऽत्मा अपि तृणं विधेयम्, निजा अपि आसनभूः विहाय देया, आनन्दवाष्पः अपि अम्भः कल्प्यं, मधुभिः वचोभिः पृच्छा विधेया / / 21 // ___ व्याख्या-आचारविंदा, शीलेन - आचारप्रमाणेन, स्वाऽऽत्मा अपि = निजशरीरम् अपि, तृणं विधेयं = तृणवत् अर्पणीयम्, निजा अपि = स्वकीया अपि, आसनभूः = उपवेशनस्थानं, विहाय = त्यक्त्वा, स्वयं तत उत्थायेति भावः, देया = दातव्या, आनन्दवाष्पः अपि = हर्षाऽश्रुभिः अपि, अम्भः जलं, पाद्यमिति भावः / कल्प्यं = कल्पनीय, मधुभिः = मधुप्रायः, वचोभिः = वचनैः, पृच्छा - कुशलप्रश्नः, विधेया = कर्तव्या // 21 // अनुवाद:-आचार जानने वाले गृहस्थको आचारप्रमाणसे अतिथिसेवाके लिए अपने शरीरको भी तृणके समान अर्पण करना चाहिए, अपनी आसनभूमि भी छोड़कर देनी चाहिए, हर्षाश्रुओंसे भी पाद्य ( चरण धोनेके जल ) की कल्पना करनी चाहिए और मधुप्राय वचनोंसे अतिथिसे. कुशलप्रश्न करना चाहिए // 21 // टिप्पणी . स्वाऽऽत्मा = स्वस्य आत्मा (प. त०)। "आत्मा यत्नो धसिद्धिः स्वभावो ब्रह्म वर्म च ." इत्यमरः / आसनभूः - आसनस्य भूः (ष० त० ) / आनन्दवाप्पैः = आनन्दस्य वाप्पाणि, तैः (प. त० ) / पृच्छा"प्रश्नोऽनुयोगः पृच्छा च" इत्यमरः / प्रच्छनं पृच्छा, प्रच्छ धातु से "षिद्भिदादिभ्योऽङ्” इससे अ+टाप् +सु // 2 // पदोपहारेऽनपनम्रताऽपि संभाव्यतेऽपा स्वरयाऽपराधः / तत्कर्तुमर्हाऽलिसञ्जनेन स्वसंभृतिप्राजलताऽपि तावत् // 22 // अन्वयः-पदोपहारे त्वरया अपाम् अनुपनम्रता अपि अपराधः संभाव्यते, तत अञ्जलिसजनेन स्वसंभृतिप्राञ्जलता अपि तावत् कर्तुम् अर्हा // 22 //