________________ .. अष्टमः सर्गः .... 181 भयसे सखियोंके शब्दहीन हो जानेपर लज्जासे मुखचन्द्र को झुकाकर स्खलित स्वरसे नलसे स्वयम् बोलने लगीं // 19 // टिप्पणी-व्यर्थीभवद्भावपिधानयत्ना = अव्यर्थों व्यर्थो यथा संपद्यते तथा भवन्, ( व्यर्थ+च्चि + भू+ लट् (शतृ) + सु ) / भावस्य पिधानम् (प० त०), तस्मिन् यत्नः ( स० त० ) / व्यर्थीभवन् भावपिधानयत्नो यस्याः सा ( बहु० ) सखीजने = सखी चाऽसौ जनः, तस्मिन् ( क० धा० ) साध्वससन्नवाचि = सन्ना वाक् यस्य सः ( बहु० ) / साध्वसेन सन्नवाक्, तस्मिन् (तृ० त०)। नमदाननेन्दुः = आननम् इन्दुरिव ( उपमित० ) / नमन् आननेन्दुः यस्याः सा ( बहु० ) / श्लथगद्गदेन = श्लथश्चाऽसौ गद्गदः तेन ( क० धा० ) / ऊचे = ब्रू ( वच् ) + लिट् +त ( एश् ) // 19 // नत्वा शिरोरत्नरुचाऽपि पाद्यं सम्पाद्यमाचारविदाऽतिथिभ्यः / प्रियाऽक्षराऽलीरसधारयाऽपि वैधी विधेया मधुपकंतृप्तिः // 20 // ___ अन्वयः-आचारविदा अतिथिभ्यः नत्वा शिरोरत्नरुचा अपि पाद्यं सम्पाद्यम, (किञ्च ) प्रियाऽक्षराऽलीरसधारया अपि वैधी मधुपर्कतृप्तिः विधेया // 20 // व्याख्या -- अथ नलाऽऽतिथ्यं चिकीर्षुस्त्रिभि: पय॑स्तत्कर्तव्यतामाह-नत्वेत्यादि / आचारविदा = सदाचारज्ञात्रा, गृहस्थेनेति शेषः / अतिथिभ्यः = आगन्तुभ्यः, नत्वा = पदयोनिपत्य, शिरोरत्नरुचा अपि = मस्तकमणिकान्त्या अपि, पाद्यं = पादधावनाथं जलं, संपाद्यं = सम्पादनीयं, देयमिति भावः / किञ्च प्रियाऽक्षरालीरसधारया अपि = हृद्यवाक्यकदम्बकाऽनन्दलहर्या अपि, वैधी = विधिप्राप्ता, मधुपर्कतृप्तिः = दधिमधुघतजनितं सौहित्यमिति भावः / विधेया = कर्तव्या / मुख्याऽनुकल्पोऽप्यनुष्ठेय इति भावः // 20 // ___अनुवादः-आचार जाननेवाले गृहस्थकी अतिथियोंको नमस्कार कर शिरके रत्नकी निर्मल कान्तिसे भी पाद्य ( चरणोंको धोनेके लिए जल ) देना चाहिए, प्रिय वाक्योंके रसकी धारासे भी विधिप्राप्त मधुपर्क ( दही, शहद और घी )से तृप्ति करनी चाहिए // 20 // टिप्पणी - आचारविदा = आचारं वेत्तीति, तेन, आचार + विद् + क्विप् ( उपपद० )+टा / शिरोरत्नरुचा = शिरसि रत्नम् ( स० त० ), तस्य रुक्, तया ( ष० तं० ) / पाद्यं = पादाऽर्थम् उदकम्, पाद शब्दसे “पादाऽर्घाभ्यां च" इस सूत्रसे यत् प्रत्यय / सम्पाद्यं = संपादयितु योग्यम्, सम् + पद्+णिच् + ण्यत + सु / प्रियाऽक्षराऽऽलीरसधारया = प्रियाश्च ते अक्षरा: ( क० धा० ),