________________ 187 अष्टमः सर्गः पुण्ये ममः कस्य मुनेरपि स्यात्प्रमाणमास्ते यवधेपि धावत् / तच्चिन्ति चित्तं परमेश्वरस्तु भन्नस्य हृष्यत्करुणो रुणद्धि // 17 // अन्वयः- मुनेः अपि कस्य मनः पुण्ये स्यात्, यत् अघे अपि धावत् मनः ( एव ) प्रमाणम् आस्ते / ( किन्तु ) हृष्यत्करुणः परमेश्वरस्तु तच्चिन्ति भक्तस्य चित्तं रुणद्धि // 17 // ___व्याख्या-मुनेः अपि = ऋषेः अपि, कस्य = जनस्य, मनः = चित्तं, पुण्ये= धर्म एव विषये, स्यात् =भवेत्, अन्यस्य का वार्तेति शेषः / यत्-यस्मात्कारणात्, अघे अपि = पापे अपि, धावत् = शीघ्र गच्छत्, उच्छङ्खलत्वेनेति भावः / मनः = चित्तम् एव, प्रमाणं = निश्चायकम्, आस्ते = विद्यते, किन्तु हृष्यत्करुणः = उद्यद्दयः, परमेश्वरस्तु = जगदीश्वर एव, तच्चिन्ति = अघचिन्तकं, भक्तस्य = निजोपासकस्य, चित्तं = मानसं, रुणद्धि = निवारयति // 1 // ___ अनुवाद:-किस मुनिका भी चित्त पुण्यमें ही रहेगा? जो कि पापमें ही दौड़नेवाला मन ही प्रमाण होता है। परन्तु करुणापरायण परमेश्वर ही पापकी चिन्ता करनेवाले भक्तके चित्तको रोक देते हैं / / 17 / / . टिप्पणी-धावत् = धावतीति, धाव+ लट् + ( शतृ )+सु / आस्ते = आस् + लट् + त / हृष्यत्करुणः = हृष्यन्ती करुणा यस्य सः ( बहु०)। परमेश्वरः = परमश्चाऽसौ ईश्वरः ( क० धा० ) / तच्चिन्तिः = तत् ( अघम् ) चिन्तयतीति, तद् + चिन्त+णिच् +णिनि ( उप० )-सु / रुणद्धि = रुध् + लट् +तिप् // 17 // . सालोकदृष्टे मदनोन्मदिष्णुर्यथाऽप शालीनतया न मौनम् / तथैव तब्येऽपि नले न लेभे, मुग्धेषु कः सत्यमृषाविवेक ? // 18 // अन्वयः-मदनोन्मदिष्णुः सा यथा अलीकदृष्टे नले शालीनतया मौनं न आप, तथैव तथ्ये अपि नले मौनं न लेभे / मुग्धेषु सत्यमृषाविवेकः कः ? // 18 // व्याख्या-सम्प्रति दमयन्त्या धाष्टर्यदोषं परिहरति सेति / मदनोन्मदिष्णुः = मदनेन ( कामेन ) उन्मदिष्णुः ( उन्मादशीला सती ), सा = दमयन्ती, यथा = येन प्रकारेण, अलीकदृष्टे = मिथ्यादृष्टे, नले = नैषधे, शालीनतया = अधृष्टतया, मौनं = तूष्णीकत्वं, न आप = न प्राप, पूर्व किमपि अवादीदिति भावः / तथैव = तेन प्रकारेणैव, तथ्ये अपि = सत्ये अपि, नले = नैषधे विषये, मौनं = तुष्णीकत्वं, न लेभे = न प्राप, किमपि अवोचदिति भावः / तत्कथमित्याशङ्कामर्थान्तरन्यासेन परिहरति-मुग्धेष्विति / मुग्धेषु =