________________ 156 नैषधीयचरितं महाकाव्यम् होकर दमयन्तीने मुक्त और संसारीकी अवस्थाके रसोंसे दो स्वादोंवाले शुद्ध हर्षका अनुभव किया // 15 // टिप्पणी -- तत्कालं = तं च तं कालम्, “कालाऽध्वनोरत्यन्तसंयोगे” इससे द्वितीया और "अत्यन्तसंयोगे च" इससे द्वितीयातत्पुरुष / आनन्दमयी = आनन्द: स्वरूपं यस्याः सा, आनन्द+मयट ( स्वार्थमें )+ डीप् + सु / भवत्तराऽनिर्वचनीयमोहा = अतिशयेन भवन, भवत् +तरप्+सु / न निर्वचनीयः ( नन्० ) / भवत्तरः अनिर्वचनीय: मोहः यस्याः सा ( बहु० ) / मुक्तसंसारिदशारसाभ्यां - मुक्तश्च संसारी च ( द्वन्द्व० ) / तयोर्दशे (10 त० ), तयो रसो ताभ्याम् ( 10 त० ) / द्विस्वादं = द्वौ स्वादी यस्मिन्, तम् ( बहु० ) / मृष्टं = मृज् +क्त + अम् / अभुङ्क्त = भुज+ लुङ्+त / "भुजोऽनवंने” इससे आत्मनेपद / इस पद्यमें भावोदय अलङ्कार है // 15 // दूते नलश्रीभृति भाविभावा कलङ्किनीयं जनितेति नूनम् / न स व्यधान्नषधकायमायं विधिः स्वयं दूतमिमां प्रतीन्द्रम् // 16 // अन्वयः-नलश्रीभृति द्ते भाविभावा इयं कलङ्किनी जनिता (इति) विधिः इमां प्रति नैषधकायमायं स्वयम् इन्द्रं दूतं न संव्यधात् नूनम् // 16 // व्याख्या -निलश्रीभृति = नैषधशोभाधारिणि, दूते = सन्देशहरे, भाविभावाभविष्यदनरागा, इयं = दमयन्ती, कलङ्गिनी कलङ्कयुक्ता, जनिता भविष्यति, ( इति = मत्वा ) विधिः = ब्रह्मदेवः, इमां प्रति = दमयन्तीं प्रति, नैषधकायमाय = नलशरीरधारिणं, स्वयं = साक्षात्, इन्द्रं = देवेन्द्रम् एव, दूतं 3 सन्देशहरं, न संव्यधात् = न कल्पितवान्, नूनमिति उत्प्रेक्षायाम् / / 16 // __ अनुवाद:-नलकी शोभा ( रूप ) को धारण करनेवाले दूतमें अनुराग करनेवाली यह ( दमयन्ती ) कलङ्किनी होगी ऐसा सोचकर मानों ब्रह्माजीने उनके प्रति नलके शरीरको धारण करनेवाले साशत् इन्द्रको दूत नहीं बनाया // 16 // टिप्पणी-नलश्रीभृति = नलस्य श्रीः (10 त० ), तां बिभर्तीति, तस्मिन्, नलश्री+भृ + क्विप् (उपपद०) + ङि ! भाविभावा = भावी भावः (अनुरागः) यस्याः सा ( बहु०), कलङ्किनी = कलङ्क + इनि + ङीप् + सु / जनिता = जन+ लुट् + तिप् / नैषधकायमाय नैषधस्य कायः (10 त० ), स एव माया ( कपटम् ) यस्य तम् ( बहु० ) / संव्यधात् = सं+वि+धा+लु+तिप् / इस पद्य में उत्प्रेक्षा अलङ्कार है // 16 //