________________ अष्टम: सर्गः 183 टिप्पणी-स्वभावलोला = स्वभावेन लोला ( तृ० त० ), स्वभावसे चञ्चल वा सतृष्ण / “लोलश्चलसतृष्णयोः" इत्यमरः / तदृष्टिः = तस्या दृष्टिः (ष० त० ) / अपघनम् = "अपघनोऽङ्गम्" इस सूत्रसे निपातन, "अङ्गं प्रतीकोऽवयवोऽपघनः" इत्यमरः / हित्वा-हा+क्त्वा / अङ्गाऽन्तरभुक्तिसीमाम् = अन्यत् अङ्गम अङ्गान्तरम् ( रूपक०), तस्य भुक्तिः (ष० त०), तस्याः सीमा ताम् (ष० त० ) / विशन्ती = विश+ लट् ( शतृ )+ङीप् / उभयलाभलोभात् = उभयोर्लाभः (10 त० ) ( समास ) वृत्तिके विषयमें उभ शब्दसे अयच् प्रत्यय / उभयलाभे लोभः; तस्मात् ( स० त०)॥११॥ निरोक्षितं चाऽङ्गमवीक्षितं च दशा पिबन्ती रभसेन तस्य / समानमानन्दमियं वधाना विवेद भेदं न विदर्भ सुभ्रः // 12 // अन्वयः - इयं विदर्भसुभ्रूः तस्य निरीक्षितम् अनिरीक्षितं च अङ्गं दृशा पिबन्ती समानम् आनन्दं दधाना भेदं न विवेद // 12 // व्याख्या-इयम् = एषा, विदर्भसुभ्रूः = वैदर्भी, दमयन्ती, तस्य = नलस्य, निरीक्षितं = दृष्टम्, अनिरीक्षतं च = अदृष्ट च, अङ्गम् = अवयवं, दशा = नेत्रेण, पिबन्ती = धयन्ती, तृष्णया पश्यन्तीति भावः / समानं = तुल्यम्, आनन्दम् = हर्ष, दधाना = धारयन्ती, अनुभवन्तीति भावः / भेदं = विशेषम् इदं दृष्टपूर्वम्, इदम् अदृष्टपूर्वं चेति विवेकमिति भावः, सर्वस्याऽप्यनस्यानन्दजनकत्वादिति तात्पर्यम्, न विवेद = नो ज्ञातवती // 12 // अनुगदः-नलके देखे गये और न देखे गये अङ्गको तृष्णाते देखती हुई समान आनन्दका अनुभव करती हुई दमयन्तीने यह अङ्ग देखा गया है और यह अङ्ग नहीं देखा गया है ऐसे भेदको नहीं समझा // 12 // टिप्पणी विदर्भसुभ्रः= विदर्भाणां सुभ्रः (10 त० ) / विवेद = विद+ लिट +तिप (णल ) / नलके समस्त अङ्ग तुल्य रूपसे मनोहर होनेसे आनन्दको उत्पन्न करते थे अतः दमयन्तीको उनके देखे गये और न देखे गये अङ्गमें कुछ भी फर्क मालुम नहीं हुआ यह भाव है / उपेन्द्रवज्रा छन्द है // 12 // सूक्ष्मे घने नेषषकेशपाशे निपत्य निष्पन्दतरीभवद्भ्याम् / तस्याऽनुबन्धं न विमोच्य गन्तुमपारि तल्लोचनखञ्जनाभ्याम् // 13 // अन्वयः-सूक्ष्मे घने नैषधकेशपाशे निपत्य निष्पन्दनरीभवद्भयां तल्लोचनखजनाभ्यां तस्य अनुबन्ध विमोच्य गन्तुं न अपारि // 13 //