________________ 182 नैषधीयचरितं महाकाव्यम् अन्वयः-सा दृशा आलिङ्गितम् अस्य अङ्गम् अग्राऽवगताऽङ्गहर्षेः न जग्राह,, अनन्तरम् अङ्गान्तरे ईक्षिते तु निवृत्य पूर्वदृष्टम् अङ्गं न सस्मार // 10 // व्याख्या-सा = दमयन्ती, दृशा = नेत्रण, अलिङ्गितम् = आश्लिष्ट, प्राप्तमिति भावः, अस्य = नलस्य, अङ्गम् = अवयवम्, आग्राऽवगताङ्गहर्षः = पूर्वगृहीताऽवयवजनिताऽऽनन्दः, न जग्राह = नो गृहीतवती, नो ज्ञातवतीति भावः / अनन्तरं = हर्षाऽनुभवाऽनन्तरम्, अङ्गान्तरे - अवयवान्तरे, ईक्षिते तु - अवलोकिते तु, निवृत्य = परावृत्य, पूर्वदृष्टं = प्रथमविलोकितम्, अङ्गम् = अवयव, न संस्मार = न स्मृतवती, नलस्य तत्तदवयवय लोकोत्तरत्वादिति भावः // 10 // अनुवादः-दमयन्तीने आँखोंसे प्राप्त नलके अङ्गको पहले देखे गये अङ्गसे उत्पन्न हर्षों से नहीं देखा। अनन्तर दूसरे अङ्गके देखे जानेपर लौटकर उन्होंने पहले देखे गये अङ्गका स्मरण नहीं किया // 10 // टिप्पणी-अग्रावगताऽङ्गहषः = अग्रे अवगतानि ( स० त० ) तानि च तानि अङ्गानि ( क० धा० ), तेषां हर्षाः, तैः (10 त० ) / जग्राह = ग्रह + लिट् + तिप् ( णल् ) / अङ्गान्तरे = अन्यत् अङ्गं, तस्मिन् ( रूपक० ) / पूर्वदृष्टं = पूर्व दृष्टं तत् (सुप्सुपा०) / सस्मार = स्मृ + लिट् +तिप् ( णल् ) / नलके प्रत्येक अङ्ग लोकोत्तर थे यह भाव है // 10 // हित्वकमस्याऽपघनं विशन्तो तदृष्टिरक्षान्तरभुक्तिसीमाम् / चिरं चकारोभयलाभलोभात् स्वभावलोला गतमागतं च // 11 // अन्वयः-स्वभावलोला तदृष्टि: अस्य एकम् अपघनं हित्वा अङ्गान्तरभुक्ति सीमां विशन्ती चिरम् उभयलाभलोभात् गतम् आगतं च चकार // 11 / / व्याख्या स्वभावलोला = निःसर्गचञ्चला, तदृष्टिः = दमयन्तीदृक् अस्य = नलस्य, एकम्, अपघनम् = अङ्गं, हित्वा = त्यक्त्वा, अङ्गान्तरभुक्तिसीमाम् = अवयवान्तरभोगाऽवधिम्, अवयवान्तरदेशमिति भावः / विशन्ती = प्रविशन्ती, चिरं = बहुकालपर्यन्तम्, उभयलाभलोभात् = अवयवद्वयप्राप्ति लोलुपत्वात्, गतं = गमनम्, आगमनम् च = आगति च, चकार = कृतवती, उभयोरप्यङ्गयोस्तथा रमणीयत्वादिति भावः // 11 // अनुवादः-स्वभावसे चञ्चल वा सतृष्ण दमयन्तीके नेत्रोंने नलके एक अवयवको छोड़कर दूसरे अङ्गके स्थानमें प्रवेश करते हुए बहुत कालतक दोनों अङ्गोंके लाभमें लोभ होनेसे गमन और आगमन किया // 11 //