________________ 184 . : नेषधीयचरितं महाकाव्यम् व्याख्या-सूक्ष्मे = तनीयसि, घने = सान्द्रे दृढे च, नैषधकेशपाशे = नलकचकलापे, केशाऽपबन्धने च, निपत्य = नितरां पतित्वा, निष्पन्दतरीभवद्भयां = निश्चलीभवद्भयां, दमयन्तीनेत्रपक्षे विस्मयात्, खञ्जनपक्षे यन्त्रलग्नात् हेतोरिति भावः / तल्लोचनखजनाभ्यां = दमयन्तीनयनखञ्जरीटाभ्यां, तस्य = केशपाशस्य, अनुबन्धं दमयन्तीनेत्रपक्षे-आसक्ति, खञ्जरीटपक्षे-बन्धनम् / विमोच्य% मोचयित्वा, गन्तुं = यातुं, न अपारि = न अशाकि // 13 // .. ___ अनुवादः-जैसे पतले और दृढ पाशके बन्धनमें फंसकर निश्चल होता हुआ खञ्जन पक्षी उस बन्धनको छोडकर नहीं जा सकता है उसी तरह महीन और घने नलके केशपाशमें पड़कर निश्चल होकर खञ्जन पक्षीके समान दमयन्तीके नेत्र आसक्तिको छोड़कर नहीं जा सके ( लगातार उसीको देखते रहे) // 13 // टिप्पणी-नैषधकेशपाशे = केशानां पाशः ( ष० त० ), नेषधस्य केशपाशः, तस्मिन् ( ष० त० ) / “पाशः कचाऽन्ते सङ्काऽर्थः, कर्णान्ते शोभनाऽर्थकः / क्षत्राद्यन्ते च निन्दाऽर्थः, पाशः पक्ष्यादिबन्धने // " इति विश्वः / निपत्य = नि+पत् + क्त्वा ( ल्यप् ) / नि:पन्दतरीभवद्भयां = निर्गतः स्पन्दो याभ्यां तो निस्पन्दौ ( बहु० ) / अतिशयेन निस्पन्दौ निस्पन्दतरौ, ( निस्पन्द + तरप् + औ ) / अनिस्पन्दतरी निस्पन्दतरौ यथा संपद्येते तथा भवन्तौ निस्पन्दतरीभ वन्तौ, ताभ्याम् ( निस्पन्दतर+च्चि+ भू + लट् ( शतृ० )+ भ्याम् ) / तल्लोचनखञ्जनाभ्यां = तस्या लोचने (ष० त० ) ते एव खञ्जनौ, ताभ्याम् ( रूपक० ) / विमोच्य = वि + मुच्+णिच् + क्त्वा ( ल्यप् ) / अपारि = पार+ लुङ् ( भावमें)+ त / इस पद्यमें श्लिष्ट विशेषण रूपक अलङ्कार है // 13 // भूलोकभर्तुर्मुखपाणिपादपदमैः परीरम्भमवाप्य तस्य / दमस्वसुदृष्टिसरोजराजिश्चिरं न तत्याज सबन्धुबन्धम् // 14 // अन्वयः-दमस्वसुः दृष्टिसरोजराजि: भूलोकभर्तुः तस्य मुखपाणिपादपद्मैः परीरम्भम् अवाप्य सबन्धुबन्धं चिरं न तत्याज // 14 / / व्याख्या-दमस्वसुः = दमयन्त्याः, दृष्टिसरोजगजिः = नेत्रकमलपङ्क्तिः, भूलोकभर्तुः = भूमिलोकस्वामिनः, तस्य = नलस्य, मुखपाणिपादपद्भः - वदनकरचरणकमलः सह, परीरम्भं = संश्लेषम्, अवाप्य = प्राप्य, सबन्धुबन्धं - समानवान्धवाऽऽसक्ति, चिरं = बहुंकालपर्यन्तं, न तत्याज = नो मुमोच /