________________ 180 _ नैषधीयचरितं महाकाव्यम् ___ अन्वयः .. कृशाङ्गयः एकरसाः ( सत्यः) अप्रतिभाऽतिभारात् तं क: त्वं ? कुतो वा इति प्रष्टुम् अपि जातु न शेकुः / ( किञ्च ) अभ्युत्थितिवाञ्छया इव निजाऽऽसनात् न उत्तस्थुः // 7 // व्याख्या-कृशाऽङ्गयः = तन्वङ्गयः, स्त्रियः / एकरसाः - एकाऽनुरागाः आनन्दरसपरवशाः सत्यः, अत एव अप्रतिभाऽतिभारात् = अप्रागल्भ्यातिबाहुल्यात्, तं = नलं, कः = किनामा, त्वं, कुतो वा = कस्मात् स्थानाद्वा, आगतः, इति = एवं, प्रष्टुम् अपि = अनुयोक्तुम् अपि, जातु = कदाऽपि, न शेकुः = न प्रबभूवुः, किञ्च अभ्युत्थितिवाञ्छया इव = प्रत्युत्थानेच्छया इव, निजाऽऽसनातस्वोपवेशनस्थानात्, न उत्तस्थुः = न उत्थिताः, तस्य तेजोविशेषान्मनसवोत्तस्थरिति भावः // 7 // ___ अनुवादः - कृश शरीरवाली कुमारियां आनन्दरसके परवश होती हुई प्रतिभाके अत्यन्त अभावसे नलको "तुम कौन हो ? अथवा कहाँसे आये हो ?" इस तरह प्रश्न भी नहीं कर सकी, अभ्युत्थानकी इच्छासे अपने आसनसे नहीं उठों ( उनके विशेष तेजसे मनसे ही उठीं। ) // 7 // टिप्पणी-कृशाङ्गयः = कृ शानि अङ्गानि यासां ताः ( बहु० ) / एकरसा: = एको रसो यासां ताः ( बहु०)। अप्रतिभाऽतिभारात् = न प्रतिभा ( नञ्०), तस्या अतिभारः, तस्मात् ( 10 त० ) / प्रष्टुम् = प्रच्छ+तुमुन् / शेकुः = शक् + लिट् + झि ( उस् ) / अभ्युत्थितिवाञ्छया = अभ्युत्थितेर्वाञ्छा, तया ( 10 त०)। निजाऽसनात् = निजं च तत् आसन्, तस्मात् (क० धा०) उत्तस्थुः - उद् + स्था+लिट् + झि ( उस् ) // 7 // स्वाच्छन्द्यमानन्दपरम्पराणां भैभी तमालोक्य किमप्यवाप। महारयं निझरिणीव वारामासाथ पाराधरकेलिकालम् // 8 // अन्वयः- भैमी तम् आलोक्य किमपि आनन्दपरम्पराणां स्वाच्छन्द्यं निर्झरिणी धाराधरकेलिकालम् आसाद्य वारां महारयम् इव अवाप // 8 // ___ व्याख्या - भैमी = दमयन्ती, तं = नलम्, आलोक्य = दृष्ट्वा, किमपि = अनिर्वाच्यम्, आनन्दपरम्पराणां = हर्षसन्ततीनां, स्वाच्छन्द्यम् = उच्छङ्खलत्वं, निर्झरिणी = गिरिनदी, धाराधरकेलिकालं = मेघक्रीडासमय, वर्षाकालमिति भावः। आसाद्य = प्राप्य, वारां = जलानां, महारयम् इव % वेगाऽतिशयम् इव, अवाप % प्राप // 8 //