________________ नैषधीयचरितं महाकाव्यम् कियच्चिर देवतभाषितानि निहोतुमेनं प्रभवन्तु नाम / पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतोक्षुडिम्भा // 2 // अन्वयः-देवतभाषितानि कियच्चिरम् एनं निह्रोतुं प्रभवन्तु नाम / ( तथा हि ) पलालजालः पिहितः इक्षुडिम्भः स्वयं प्रकाशम् आसादयति हि // 2 // व्याख्या-दैवाभाषितानि = इन्द्रादिदेववाक्यानि, कियच्चिरं = कियन्तं बहुकालम्, एनं = नलं, निहोतुम = आच्छादयितुं, प्रभवन्तु = शक्नुवन्तु, नाम = खलु, बहु कालं यावत् निह्नोतुं न प्रभवन्ति इति भावः / तथा हि-पलालजाल: = निष्फलबीहिकाण्डसमूहै:, पिहितः = आच्छादितः रक्षणार्थमिति शेषः / इक्षुडिम्भः= रसालप्ररोहः, स्वयं = स्वत एव, प्रकाशं = प्रादुर्भावम्, आसादयति प्राप्नोति, हि = निश्चयेन / इक्ष्वङकुरस्येव अतिप्रौढरागस्य कामिनोऽपि विकारो दुर्वार इति भावः // 2 // अनुवादः–इन्द्र आदि देवताओंके वाक्य ( अन्तर्धान सिद्धिरूप ) कितनी देरतक इन ( नल ) को छिपा सकेंगे / पुआलसे ढका हुआ गन्नेका अङ्कुर अपने आप प्रकाशको प्राप्त करता है // 2 // टिप्पणी-देवतभाषितानि = देवतानां भाषितानि ( ष० त० ) / कियचिरम् = अत्यन्तसंयोगमें द्वितीता / निह्नोतुं = नि उपसर्गपूर्वक "ह्रङ् अपनयने" इस धातुसे तुमुन् / प्रभवन्तु = प्र+भू+लोट् + झि, संभावनामें लोट् / पलालजाल: = पलालानां जालानि, तः (10 त० ) / पिहितः = अपि +धा+क्तः, भागुरिके मतसे 'अपि' के अकारका लोप / इक्षुडिम्भः = इक्षो:डिम्भः (10 त०) इस पद्य में नल और इक्षुडिम्भका बिम्ब-प्रतिबिम्बभावसे समान धर्मके निर्देशसे दृष्टान्त अलङ्कार है // 2 // अपाङ्गमप्याप दृशोर्न रश्मिनलस्य भैमीमभिलष्य यावत् / स्मराऽऽशुगः सुभ्र वि तावदस्यां प्रत्यङ्गमापुङ्खशिख ममज्ज // 3 // अन्वयः-अस्य दृशो: रश्मिः भैमीम् अभिलष्य यावत् अपाङ्गम् अपि न आप, तावत् एव स्मराऽऽशुगः अस्यां सुभ्रवि प्रत्यङ्गम् आपुङ्खशिखं ममज्ज // 3 // . व्याख्या -अस्य = नलस्य, दृशोः = नेत्रयोः, रश्मिः = दीप्तिः, भैमी = दमयन्तीम्, अभिलष्य = कामयित्वा, यावत् = यत्कालम्, अपाङ्गम् अपि = नेत्राऽन्तदेशम् अपि, न आप = न प्राप, भैमी तु नापेति किमु वक्तव्यमिति भावः / तावत् एव = तत्कालम् एव, स्मराऽशुगः - कामबाणः, अस्यां =